This page has not been fully proofread.

कपिलोपाख्यानम् ।
 
निजभर्तृगिरा भवन्निषेवानिरतायामथ देव! देवहूत्याम् ।
कपिलस्त्वमजायथा जनानां प्रथयिष्यन् परमात्मतत्त्वविद्याम् ॥ ९ ॥
निजेति । परमात्मनस्तत्त्वानां चतुर्विंशतेश्च विद्यां ज्ञानं जनानां प्रथयि-
प्यन् आचार्यपरम्परय।गमरूपेण प्रकाशयितुमुद्यतः ॥ ९ ॥
वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै ।
कपिलात्मक ! वायुमन्दिरेश ! त्वरितं त्वं परिपाहि मां गदौघात् ॥ १० ॥
वनमिति। वनमेयुषि स्वदुहितुर्मरीच्यादिभ्यो ब्रह्मपुत्रेभ्यो दत्त्वा वनं गतवति
सति जनन्यै मतसर्वस्वं सर्वस्वीयावयवयुक्तं स्वसिद्धान्तमुपादिशन् ग्राहयन् ।
त्वरितमतिलघु ॥ १० ॥
 
इति कपिलोपाख्यानं चतुर्दशं दशकम् ।
 
दशकम् - १५]
 
1
 
८३
 
मतिरिह गुणसक्ता बन्धकृत् तेष्वसक्ता
 
त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् ।
महदनुगमलभ्या भक्तिरेवात्र साध्या
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ १ ॥
 
मतिरिति । इह त्रिषु लोकेषु ये गुणाः स्रक्चन्दनवनितामृतादिविषयास्तेषु
सक्ता मतिः पुरुषस्य बन्धकृत् शरीरबन्धं करोति । तेषु गुणेष्वसक्ता तु तथा बन्धाय
न भवति ।अपिचामृतं मोक्षं करोति । तर्हि गुणसङ्गः केन त्यज्येतात आह-उपरु-
न्ध इति । भक्तियोगस्तु सक्तिमुपरुन्धे प्रतिबध्नाति । अथ भक्तिः केन साध्यत
इत्यत आह—महादति । महतां सतामनुगमनेन शुश्रूषया लभ्या भक्तिः । सैवात्र
लोके मुमुक्षुभिः साध्येति कपिलतनुः कपिलवासुदेवत्वेनावतीर्णस्त्वं देवहूत्यै स्वमात्रे
न्यगादीः उपदिष्टवान् ॥ १ ॥
 
प्रकृतिमहदहङ्काराच मात्राश्च भूता-
न्यपि हृदपि दशाक्षी पूरुषः पञ्चविंशः ।
इति विदितविभागो मुच्यतेऽसौ प्रकृत्यां
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ २ ॥
 
१. 'त्या' मूलपाठः•