2023-02-16 08:52:11 by ambuda-bot
This page has not been fully proofread.
८२
नारायणीये
[स्कन्धः - ३
परश्वस्त्वां दिदृक्षुरागत्य तुभ्यं स्वात्मजां दास्यति, त्वं च तस्यां नव पुत्रीर्जनयि-
प्यसि, अहं च स्वांशेन तव पुत्रत्वेनावतरिप्यामीत्यनुगृह्य भवान् जगामेत्यर्थः॥४॥
स मनुः शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या ।
भवदीरितनारदोपदिष्टः समगात् कर्दममागतिप्रतीक्षम् ॥ ५ ॥
स इति । भवदीरितनारदोपदिष्टः भवदीरितेन भवता प्रेरितेन नारदेनोप-
दिष्टः।नारदेन हि देवहूत्यै कर्दमवयः शीलरूपगुणवर्णनपूर्वकं कर्दमाय स्वात्मजां
प्रयच्छेति मनुरुक्तः । आगतिप्रतीक्षमिति, अपिनाम मनुरिदानीं स्वां दयितां
दुहितरमादायागच्छतीति मार्गे दत्तदृष्टिमित्यर्थः ॥ ५॥
मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ ।
भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥ ६ ॥
मनुनेति । उपहृतां सपारिबर्हं सत्कृत्य दत्ताम् । भवदर्चननिर्वृतोऽपि निवृ-
त्तिधर्मनिरतोऽपि दृढया अव्यभिचारिण्या अमायया शुश्रूषणया प्रसादं दधौ ॥६॥
स पुनस्त्वदुपासनप्रभावाद् दयिताकामकृते कृते विमाने ।
वनिताकुलसङ्कुले नवात्मा व्यहरद् देवपथेषु देवहूत्या ॥ ७ ॥
स इति। दयिताकामकृते प्रिययाभ्यर्थितस्तदिच्छानुसरणार्थं कृते स्वयो-
गानुभावेन रचिते बनिताकुलसङ्कुले परिचारकविद्याधरस्त्रीसहस्रपरिवृते नवो नूत्लो
मोहनवेषोज्ज्वलः षोडशवर्षीय आत्मा देहो यस्य स नवात्मा । अथवा नव आत्मानः
शरीराणि यस्य, सुरतोत्सुकां प्रियामात्मानं नवधा विभज्य रमयन् देवपथेषु नन्दन-
पुष्पभद्रचैत्ररथादिदेवोद्यानेषु व्यहरत् क्रीडां चक्रे ॥ ७ ॥
शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः ।
वनयानसमुद्यतोऽपि कान्ताहितकृत् त्वज्जननोत्सुको न्यवात्सीत् ॥ ८ ॥
शतवर्षमिति । वनयानसमुद्यतः तपसे वनं जिगमिषुरपि कान्ताहितकृद् दु-
हितृवरप्रदान पुत्रजननादि कुर्वन् तत्रापि त्वज्जननोत्सुकः ॥ ८ ॥
"
१.
'भगवा' क. पाठः. २. 'त्सुकोऽपि' घ. पाठ: