This page has been fully proofread once and needs a second look.

८२
 
नारायणीये
 
[स्कन्धः - ३
 
परश्वस्त्वां दिदृक्षुरागत्य तुभ्यं स्वात्मजां दास्यति, त्वं च तस्यां नव पुत्रीर्जनयि-
प्

ष्
यसि, अहं च स्वांशेन तव पुत्रत्वेनावतरिप्ष्यामीत्यनुगृह्य भ[^१]वान् जगामेत्यर्थः॥४॥
 

 
स मनुः शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या ।

भवदीरितनारदोपदिष्टः समगात् कर्दममागतिप्रतीक्षम् ॥ ५ ॥
 

 
स इति । भवदीरितनारदोपदिष्टः भवदीरितेन भवता प्रेरितेन नारदेनोप-

दिष्टः।नारदेन हि देवहूत्यै कर्दमवयः शीलरूपगुणवर्णनपूर्वकं कर्दमाय स्वात्मजां

प्रयच्छेति मनुरुक्तः । आगतिप्रतीक्षमिति, अपिनाम मनुरिदानीं स्वां दयितां

दुहितरमादायागच्छतीति मार्गे दत्तदृष्टिमित्यर्थः ॥ ५॥
 

 
मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ ।

भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥ ६ ॥

 
मनुनेति । उपहृतां सपारिबर्हं सत्कृत्य दत्ताम् । भवदर्चननिर्वृतोऽपि निवृ-

त्तिधर्मनिरतोऽपि दृढया अव्यभिचारिण्या अमायया शुश्रूषणया प्रसादं दधौ ॥६॥
 

 
स पुनस्त्वदुपासनप्रभावाद् दयिताकामकृते कृते विमाने ।

वनिताकुलसङ्कुले नवात्मा व्यहरद् देवपथेषु देवहूत्या ॥ ७ ॥
 

 
स इति। दयिताकामकृते प्रिययाभ्यर्थितस्तदिच्छानुसरणार्थं कृते स्वयो-

गानुभावेन रचिते निताकुलसङ्कुले परिचारकविद्याधरस्त्रीसहस्रपरिवृते नवो नूत्लो
नो
मोहनवेषोज्ज्वलः षोडशवर्षीय आत्मा देहो यस्य स नवात्मा । अथवा नव आत्मानः

शरीराणि यस्य, सुरतोत्सुकां प्रियामात्मानं नवधा विभज्य रमयन् देवपथेषु नन्दन-

पुष्पभद्रचैत्ररथादिदेवोद्यानेषु व्यहरत् क्रीडां चक्रे ॥ ७ ॥
 

 
शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः ।

वनयानसमुद्य[^२]तोऽपि कान्ताहितकृत् त्वज्जननोत्सुको न्यवात्सीत् ॥ ८ ॥

 
शतवर्षमिति । वनयानसमुद्यतः तपसे वनं जिगमिषुरपि कान्ताहितकृद् दु-

हितृवरप्रदान पुत्रजननादि कुर्वन्, तत्रापि त्वज्जननोत्सुकः ॥ ८ ॥
 
"
 

 
[^
].
 
'भगवा' क. पाठः.
[^
]. 'त्सुकोऽपि' घ. पाठ:
 
ठः