This page has not been fully proofread.

दशकम् - १४]
 
कपिलोपाख्यानम् ।
 
८१
 
समनुस्मृतेति । सम्यग् यमनियमादियुक्तमनुस्मृतं लयविक्षेपादिराहित्येन चि-
न्तितं तावकाङ्ङ्घ्रियुग्मं त्वत्पादपद्मयुगलं येन । पङ्कजसम्भवस्याङ्गजन्मा पुत्रः स
प्रसिद्धः स्वायम्भुवो मनुः निजमन्तरं चतुर्युगाणां साधिकैकसप्ततिपरिमितं कालम्
अन्तरायाः शाररिमानसदौवक भौतिकाः क्लेशाः प्रजापालनोपरोधाः, तद्रहितम् । एतच्च
भवदङ्घ्रिस्मरणतच्चरितकथनानुभावात् । अत एव सुखं स्वैरं यथा भवति तथा
निनाय गमयामास ॥ १ ॥
 
अथ कापिलप्रसङ्गाय कर्दमकथा प्रस्तूयते-
समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा ।
धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥ २॥
 
समय इति । तत्र समये तस्मिन् काले कर्दम इत्याख्या यस्य स प्रजापतिः
द्रुहिणच्छायभव इति, "छायायाः कर्दमो जज्ञे" ( श्री. भा. स्क. ३. अ. १२ श्लो.
२७) इत्युक्तेः। तदीयवाचा प्रजाः सृजेति ब्रह्मण आदेशाद् धृतसर्गरसः प्रजासृ-
ष्टिकामः सन् । निसर्गरम्यं स्वत एव सञ्चिन्तकहृदयरञ्जकम् अयुतं समा
दशसहस्रसंवत्सरं सिषेवे तपश्चकार ॥ २ ॥
 
गरुडोपरि कालमेघकस्रं विलसत्केलिसरोजपाणिपद्मम् ।
विभो हसितोल्लसिताननं विभे! त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥ ३ ॥
गरुडेति। त्वं तस्मै गरुडोपरि गरुडांस देशविन्यस्तचरणाम्बुजं वपुराविष्कु-
रुषे स्म दर्शयामासिथ ॥ ३ ॥
 
स्तुवते पुलकाताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः ।
कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥ ४ ॥
 
स्तुवत इति । ततश्च भुवि पतित्वा प्रणम्योत्थाय स्तुवते प्रमोद आरेण पुलकावृ-
ताय तस्मै कर्दमप्रजापतये मनुपुत्रीं देवहूतिं दयितां भार्थी तस्यां नव पुत्रीरपि स्वं स्वां-
शभूतं कपिलं सुतं च पश्चादन्ते स्वगतिं मोक्षं चानुगृह्य निर्गतोऽभूः प्रस्थितवानास।
स्वायंभुवो मनुर्ब्रह्मावर्तं नाम देशमधिवसति, सरथेन स्वमहिप्या शतरूपया सहेतः
 
१. 'त्थिताय' ख. पाठः, २. 'सि' क. पाठ:.