This page has not been fully proofread.

८०
 
नारायणीये
 
ग्रहा जिह्वायां ते परपुरुष ! कर्णे च चमसा
 
विभो ! सोमो वीर्यं वरद ! गलदेशेऽप्युपसदः ॥ ९॥
 
त्वचीति । छन्दो गायत्र्यादि त्वचि गायत्र्यादिच्छन्दांस्येव तव त्वागत्यर्थः ।
अध्वर्युब्रह्महोत्रुद्गातारश्चत्वार ऋत्विग्यजमाना एव चतुर्होतारः अनावङ्घ्रिषु ।
स्रुग्जुहूः वदने तुण्डे । इडा पुरोडाशद्रव्यनिधानपात्रविशेषः उदरे । ग्रहाः सोमसङ्ग्र-
हणपात्रविशेषास्ते जिह्वयाम् । चमसाः भक्षणसाधनद्रव्यानिधानपात्रभेदाः कर्णे कर्ण-
रन्ध्रयोः । सोमः सोमवल्लीरसो वीर्य रेतः । उपसदः प्रवर्ग्यानन्तरं क्रियमाणा
इष्टयः, तास्ते गलदशे ॥ ९ ॥
 
[स्कन्धः - ३
 
मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना
 
महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् ।
स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो !
 
निरुन्ध्या रोगं मे सकलमपि वातालयपते ! ॥ १० ॥
 
मुनीति । मुनीन्द्रैरित्यादीत्यादिशब्देन प्रायणीयोदयनीये इष्टी ते दंष्ट्रे इत्यादि
गृह्यते । स्तवनमुखरैः स्तुतिशब्दजल्पाकैः मोदितं कृतप्रसादं मनो यस्य स तथा ।
महीयस्या अतिशयेन पूजनीयया मूर्त्या स्वविग्रहेण बिमलतरया जगत्पवित्ररूपया
कीर्त्या च विलसन् शोभमानः सुखरसविहारी स्वैरं क्रीडमानः स्वधिष्ण्यं वैकुण्ठं
 
संप्राप्तः ॥ १० ॥
 
लनप्रकारमाह-
इति हिरण्याक्षयुद्ध-तद्वध-यज्ञवराहस्तुतिवर्णनं
त्रयोदशं दशकम् ।
 
एवं वराहावतारेण कृतप्रतिष्ठायां भुवि तदाश्रयत्वेन स्वायंभुवस्य मनोः प्रजापा-
समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा ।
निजमन्तरमन्तरायहीनं चरितं ते कथयन् सुखं निनाय ॥ १ ॥
 
१. 'न म' क. पाठ:.