This page has been fully proofread once and needs a second look.

८०
 
नारायणीये
 
ग्रहा जिह्वायां ते परपुरुष ! कर्णे च चमसा
 

विभो ! सोमो वीर्यं वरद ! गलदेशेऽप्युपसदः ॥ ९॥
 

 
त्वचीति । छन्दो गायत्र्यादि त्वचि गायत्र्यादिच्छन्दांस्येव तव त्वागवगित्यर्थः ।

अध्वर्युब्रह्महोत्रुद्गातारश्चत्वार ऋत्विग्यजमाना एव चतुर्होतारः अनाङ्घ्रावङ्घ्रिषु ।

स्रुग्जुहूः वदने तुण्डे । इडा पुरोडाशद्रव्यनिधानपात्रविशेषः उदरे । ग्रहाः सोमसङ्ग्र-

हणपात्रविशेषास्ते जिह्वयाम् । चमसाः भक्षणसाधनद्रव्यानिधानपात्रभेदाः कर्णे कर्ण-

रन्ध्रयोः । सोमः सोमवल्लीरसो वीर्यं रेतः । उपसदः प्रवर्ग्यानन्तरं क्रियमाणा

इष्टयः, तास्ते गलदशे ॥ ९ ॥
 
[स्कन्धः - ३
 

 
मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना
 

महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् ।

स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो !
 

निरुन्ध्या रोगं मे सकलमपि वातालयपते ! ॥ १० ॥
 

 
मुनीति । मुनीन्द्रैरित्यादीत्यादिशब्देन प्रायणीयोदयनीये इष्टी ते दंष्ट्रे इत्यादि

गृह्यते । स्तवनमुखरैः स्तुतिशब्दजल्पाकैः मोदितं कृतप्रसादं मनो यस्य स तथा ।

महीयस्या अतिशयेन पूजनीयया मूर्त्या स्वविग्रहेण बिमलतरया जगत्पवित्ररूपया

कीर्त्या च विलसन् शोभमानः सुखरसविहारी स्वैरं क्रीडमानः स्वधिष्ण्यं वैकुण्ठं
 

संप्राप्तः ॥ १० ॥
 
लनप्रकारमाह-

 
इति हिरण्याक्षयुद्ध-तद्वध-यज्ञवराहस्तुतिवर्णनं

त्रयोदशं दशकम् ।
 

 
एवं वराहावतारेण कृतप्रतिष्ठायां भुवि तदाश्रयत्वेन[^१] स्वायंभुवस्य मनोः प्रजापा-

लनप्रकारमाह--
 
समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा ।

निजमन्तरमन्तरायहीनं चरितं ते कथयन् सुखं निनाय ॥ १ ॥
 

 
[^
]. 'न म' क. पाठ:.
 
ठः