This page has not been fully proofread.

दशकम् - १३].
 
हिरण्याक्षवधवर्णनम् ।
 
गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं
 
कैराग्रेण स्वेन श्रवणपदमूले निरवधीः ॥ ७ ॥
 
भवदिति । भवतो विष्णोः सुदर्शनाख्यस्य चक्रस्य ज्योतिषस्तेजसः कणः
स्फुलिङ्गस्तस्य लवो लेशस्तस्य निपातेन प्रसरणेन मायानामासुरीणां चक्रे समूह
विधुते चलिते । यथा रवेः प्रकाशलेशनिपातेन नैशं तमः, तद्वददर्शनं गते सती-
त्यर्थः । ततः स्वारम्भवैफल्यानन्तरं विततो व्याप्तो घनो निबिडो यो रोषस्तेना-
न्धं मनो यस्य स विततघनरोपान्धमनाः तम् । करकलितं सुदर्शनमनन्यसाधारणं
प्रभावं च दृष्ट्वापि प्राग्जन्मशापप्रभावेन स्वस्वामिनमजानन्तमिति भावः । गरिष्ठाभि-
र्गुरुतराभिर्मुष्टिप्रहृतिभिरभिन्नन्तं विजिगीषया पुनः पुनः प्रयुञ्जानं " कराग्रेण स्वेन
श्रवणपदमूल " इति पाठः समीचीनः । "करेण कर्णमूलेऽन् ", "निहतः करेण"
(स्क. ३. अ. १९. श्लो. २५, २८) इति च भागवतोक्तेः । अनन्तरश्लोके च " तव
करसरोजप्रमथित " इति ॥ ७ ॥
 
66
 
महाकायः सोऽयं तव करसरोजप्रमथितो
 
गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितर्हतिः ।
तदा त्वामुद्दामप्रमदभरविद्योतिहृदया
 
मुनीन्द्रा: सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनम् ॥ ८ ॥
 
अध्वरतनुत्वेनैव स्तौति —
 
त्वचि च्छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं
चतुर्होतारोऽौ सुगपि बदने चोदर इडा ।
 
१. 'स्वपादाङ्गुष्टेन' ख. पाठ:
 
७९
 
महाकाय इति । 'भगवता स्वकराग्रेण कर्णकपोलसन्धौ ताडितोऽस्य
मुखं पश्यन्नेवासौ तनुं जहौ, अहो भाग्यं, को न्विमां संस्थितिं लभेत' इत्यृषिभिः
श्लाघिता सशिरःकम्पं स्तुता हतिर्निग्रहो यस्य स तथा । उद्दामप्रमदभरेणान्त-
र्दुर्वहेण सन्तोषातिशयेन विद्योति शोभनशीलं हृदयं येषां ते मुर्नान्द्रा जनस्तपः-
सत्यलोकनिवासिनः सान्द्राभिः सम्भूय कृतत्वाद् बधिरीकृतदशदिशाभिः स्तु-
तिभिः स्तोत्रैरध्वरतनुं यज्ञाङ्गं श्रीवराहमूर्तिमनुवन् तुष्टुवुः ॥ ८ ॥
 
२. 'चरणपातप्र' ग. घ. पाठ:. ३. 'ग' क. पाठ:.
 
-