This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः-३
 
गो
गदोन्मर्द इति । तस्मिन् गदोन्मर्दे गदायुद्धे तव खलु गदायां तव

हस्तस्थितायामेव दितिभुवो हिरण्याक्षस्य गढ़ादाघाताद् गदाप्रहारेण झटिति भूमौ

पतितायाम् । अहहेति खेदे, अथवाद्भुते । मयि संरम्भयोगेनापि समाधिनैरन्तर्
यं
कुर्वतो मद्दासस्य सकृदपि समीहितं साधयामीति भगवता स्वयमेव पातिता गदा,

अहो भ[^१]वतो भक्तवात्सल्यमिति भावः । हे विभो ! अत एव त्वं मृदुस्मेरास्यः न

गदापातात् खिन्नोऽभूः, किन्तु मृदुमन्दस्मितविकसितमुखाम्बुजः सन् दनुजकुला-

नामसुरसमूहानां निर्मूलनेन सुदर्शनमिति प्रसिद्धं महाचक्रं स्मृत्वा करभुवि

स्मृतमात्र एव सम्प्राप्तं दधानो रुरुचिपेषे शत्रोः कण्ठदेशं लक्षीकृत्योन्नमितदक्षिण-

करेण सुदर्शनं गृह्णन् त्वम् । जाज्वल्यमानकालचक्रतेजसा वैष्णवेन तेजसा च

सञ्जातोत्कर्षं तव रूपं सकलजनचक्षुरिन्द्रियगोचरतामगमदित्यर्थः ॥ ९ ॥

 
ततः शुशूलं कालप्रतिमरुपिषि दैत्ये विसृजात
 
७८
 
जति
त्वयिच्छिन्दत्येनत् करकलितचक्रप्रहरणात् ।

समारुष्टो पुष्ट्या स खलु वितुदंस्त्वां समतनोद्
 

गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥ ६ ॥
 

 
तत इति । यस्मात् तव करकमलाद् गदापातेऽप्यव्याकुलहृदयता वैष्णव-

तेजः प्रकाशश्च तत इत्यर्थः । कालप्रतिमरुषि जगत्संहारकारिकालाग्झिनिरुद्रसदृशकोपे

दैत्ये कर्तरि शूलं विसृजति प्रयोक्तुमुद्यच्छति सत्येव त्वयि एनत् त्रिशूलं करे

कलितस्य चक्रस्य सुदर्शनस्य प्रहरणात् छिन्दति द्विधाकुर्वति सति स खलु दैत्यः

समारुष्टः पूर्वस्मादप्यतिकुपितो मुष्ट्या त्वां वितुदन् मुष्टीकृताभ्यामुभाभ्यां करा-

भ्यामुरसि दृढं प्रहरन् त्वयि जगन्मोहनकरी: त्वदितरजनसम्मोहसम्पादयित्रीः

मायाः समतनोत् प्रायुङ्क्त । गलन्माय इति एवंविधा माया गलन्त्यो दूरस्था

भवन्ति यस्मात् स तथा, अथवेश्वरस्य स्वरूपभूता विगलन्ती पृथगिवात्मानं

प्रकाशयन्ती जगत्सृष्ट्यादिकारिणी यस्मात् तादृशे त्वयीत्यर्थः ॥ ६ ॥
 
FUNN
 

 
गलन्मायत्वमेव दर्शयति -
-
 
भवच्चक्रज्योतिष्कणलवनिपातेन विधुते
 

ततो मायाचक्रे विततघनरोपाषान्धमनसम् ।
 

 
[^
]. 'भगव' क. पाठ