2023-02-16 08:52:10 by ambuda-bot
This page has not been fully proofread.
दशकम् - १३]
हिरण्याक्षयुद्धवर्णनम् ।
अहो इति । अहो कष्टमेतदनेन मुनिना मम प्रतियोद्धृत्वेन प्रदर्शितोऽय-
मारण्यः अरण्यनिवासी मृगः सूकर इति हसन्तम् एवमादिवचनैः परिहसन्तं पुन
रपि बहुतरैर्दुरुक्तैः रे सुराधम ! मायामात्रप्रभाव ! अनया गदया शीर्णशिरस्कं
त्वां निहन्मि, इत्यादिभिर्दुर्वागिषुभिर्विध्यन्तं ताडयन्तं दितिसुतं दितेः प्रियं पुत्रं
न तु काश्यपस्य हे भगवन् ! त्वमप्यवज्ञायाधिक्षिप्य दंष्ट्राशिरास चकितां दुःस्थां
महीं दृष्ट्वा मत्प्रियस्यानेन सङ्गरे सति निमज्जेयमह मिति विचिन्त्य भीतां स्वेन
अनन्यसाधारणेन महसा योगैश्वर्येण पयोधौ अगाधस्य सिन्धुजलस्योपरि आधाय
विन्यस्यावनिमज्जनाभावाय चराचरसन्तानाय च तस्यां स्ववीर्यमाधायेत्यर्थः ।
प्रसभं बलात्कारेण मृधविधौ युद्धकर्माणि उदयुङ्क्थाः सन्नाहं चकृपे ॥ ३ ॥
गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो
नियुद्धेन क्रीडन् घटघटरवोद्घष्टवियता ।
रणालोकौत्सुक्यान्मिलति सुरस द्रुतम
निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥ ४ ॥
गदापाणाविति । दैत्ये गदापाणौ युयुत्सति सति, हि हेतौ, यस्मादेवं तस्मात्
त्वमपि गृहीता स्मृतिमात्र एव कराम्बुजं प्राप्ता उन्नता महती गदा कौमोदकी येन
तथाभूतः सन् नियुद्धेन द्वन्द्वयुद्धेन क्रीडन् शनैश्शनैः । कीदृशेन नियुद्धेन, घटघटर-
वैरितरेतरगदाभिघातसमुत्थैरुघुष्टमुच्चैः शब्दायमानं वियद् अण्डकटाहकुहरं यस्मि
स्तद् घटघटरवोद्घष्टवियत् तेन । रणालोकौत्सुक्याद् भगवतः श्रीवराहमूर्तेः
पराक्रमदर्शनकौतुकातिशयेन सुराणां सङ्घे मिलति ससम्म स्थितवति सति
सन्ध्यातः प्रथमं पूर्वं द्रुततरं यावत् सन्ध्यां स्वकालं प्राप्यासौ न वर्धेत तावद्
द्रुततरममुं दैत्यं निरुन्ध्या निगृहाण इति धात्रा जगदिषे ब्रह्मा भवन्तं विज्ञापि
तवानित्यर्थः ॥ ४ ॥
"
गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो
गदाघाताद् भूमौ झटिति पतितायामहह भोः ! ।
मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं
महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥ ५ ॥
१. 'ति अहमहमिकया स' क. पाठः,
७७