This page has been fully proofread once and needs a second look.

दशकम् - १३]
 
हिरण्याक्षयुद्धवर्णनम् ।
 
अहो इति । अहो कष्टमेतदनेन मुनिना मम प्रतियोद्धृत्वेन प्रदर्शितोऽय-

मारण्यः अरण्यनिवासी मृगः सूकर इति हसन्तम् एवमादिवचनैः परिहसन्तं पुन
-
रपि बहुतरैर्दुरुक्तैः रे सुराधम ! मायामात्रप्रभाव ! अनया गदया शीर्णशिरस्कं

त्वां निहन्मि, इत्यादिभिर्दुर्वागिषुभिर्विध्यन्तं ताडयन्तं दितिसुतं दितेः प्रियं पुत्रं

न तु काश्यपस्य हे भगवन् ! त्वमप्यवज्ञायाधिक्षिप्य दंष्ट्राशिरासरसि चकितां दुःस्थां

महीं दृष्ट्वा मत्प्रियस्यानेन सङ्गरे सति निमज्जेयमह मिति विचिन्त्य भीतां स्वेन

अनन्यसाधारणेन महसा योगैश्वर्येण पयोधौ अगाधस्य सिन्धुजलस्योपरि आधाय

विन्यस्यावनिमज्जनाभावाय चराचरसन्तानाय च तस्यां स्ववीर्यमाधायेत्यर्थः ।

प्रसभं बलात्कारेण मृधविधौ युद्धकर्माणि उदयुङ्क्थाः सन्नाहं चकृपे ॥ ३ ॥

 
गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो

नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता ।

रणालोकौत्सुक्यान्मिलति सुरसङ्घे द्रुतम
 
मुं
निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥ ४ ॥

 
गदापाणाविति । दैत्ये गदापाणौ युयुत्सति सति, हि हेतौ, यस्मादेवं तस्मात्

त्वमपि गृहीता स्मृतिमात्र एव कराम्बुजं प्राप्ता उन्नता महती गदा कौमोदकी येन

तथाभूतः सन् नियुद्धेन द्वन्द्वयुद्धेन क्रीडन् शनैश्शनैः । कीदृशेन नियुद्धेन, घटघटर-

वैरितरेतरगदाभिघातसमुत्थैरुद्घुष्टमुच्चैः शब्दायमानं वियद् अण्डकटाहकुहरं यस्मि
मिं-
स्तद् घटघटरवोद्घुष्टवियत्, तेन । रणालोकौत्सुक्याद् भगवतः श्रीवराहमूर्तेः

पराक्रमदर्शनकौतुकातिशयेन सुराणां सङ्घे मिलति[^१] ससम्मर्दं स्थितवति सति

सन्ध्यातः प्रथमं पूर्वं द्रुततरं यावत् सन्ध्यां स्वकालं प्राप्यासौ न वर्धेत तावद्

द्रुततरममुं दैत्यं निरुन्ध्या निगृहाण इति धात्रा जगदिषे ब्रह्मा भवन्तं विज्ञापि
-
तवानित्यर्थः ॥ ४ ॥
 
"
 

 
गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो

गदाघाताद् भूमौ झटिति पतितायामहह भोः ! ।

मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं
 

महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥ ५ ॥
 

 
[^
]. 'ति अहमहमिकया स' क. पाठः,
 
७७