2023-02-16 08:52:10 by ambuda-bot
This page has not been fully proofread.
नारायणीये
अनन्तरं नारदस्य हिरण्याक्षवधसाहाय्यं दर्शयति
हिरण्याक्षं तावद् वरद ! भवदन्वेषणपरं
चरन्तं सांवर्ते पयसि निजङ्घापरिमिते ।
भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिः
शनैरूचे नन्दन् दनुजमपि निन्द॑स्तव वलम् ॥ १ ॥
हिरण्याक्षमिति । तावत् तव धरोद्धरणसमकालमेव संवर्तः प्रलयः,
तत्सम्बन्धिनि पयसि कपटपटुधी: जगदनुग्रहायाङ्गीकृतकापव्या पट्टी तन्निपुणा
श्रीर्यस्य स तथा दनुजं हिरण्याक्षं नन्दन् प्रशंसन् तव बलमपि निन्दन् शनैः
सानुनयमूचे उक्तवान् ॥ १ ॥
श्रीनारदोक्तिमेव दर्शयति
स मायावी विष्णुहरति भवदीयां वसुमती
प्रभो ! कष्टं कष्टं किमिदमिति तेनाभिगदितः ।
नन् कासौ कासाविति स मुनिना दर्शितपथो
भवन्तं संप्रापद् धरणिधर मुद्यन्तमुद्रात् ॥ २ ॥
[स्कन्धः - ३
स इति । स विष्णु मायावी भवद्भिया वराहव्याजेनात्मानमाच्छाद्य
भवदीयां भवता ब्रह्मणोऽपहृत्य रसातले निवेशितां, वसुमतीमिति । अनेनोपेक्षानौचित्यं
द्योतयति । प्रभो! तन्निवारणसमर्थ ! कष्टं कष्टं किमिदम् अहो मन्दा अपि प्रभून्
धिहुर्वन्ति, प्रभवश्चोपेक्षापराः कोऽयं क्रम इति तेनाभिगदितः प्रोत्साहितः स नदन्
सिंहनादं कुर्वन् क्वासौ क्वासाविति साभिनिवेशं पृष्टेन मुनिना इत इत इति दर्शितः
पन्था यस्य सः धरणिधरम् उदकादुद्यन्तं भवन्तं संप्रापत् संप्राप्तवान् ॥ २ ॥
दर्शनसमनन्तरमेव स भगवन्तमधिक्षिप्तवानित्याह-
अहो आरण्योऽयं मृग इति हसन्तं बहुतरै-
दुरुक्तैविध्यन्तं दितिसुतमवज्ञाय भगवन् ! ।
महीं दृष्ट्वा दंष्ट्राशर॑सि चकितां स्वेन महसा
पयोधावाधाय प्रसभमुदयुक्था मृधविधौ ॥ ३ ॥
-