This page has been fully proofread once and needs a second look.

नारायणीये
 
अनन्तरं नारदस्य हिरण्याक्षवधसाहाय्यं दर्शयति
 
--
 
हिरण्याक्षं तावद् वरद ! भवदन्वेषणपरं

चरन्तं सांवर्ते पयसि निजङ्घापरिमिते ।

भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिः
 

शनैरूचे नन्दन् दनुजमपि निन्द॑दंस्तव लम् ॥ १ ॥
 

 
हिरण्याक्षमिति । तावत् तव धरोद्धरणसमकालमेव संवर्तः प्रलयः,

तत्सम्बन्धिनि पयसि कपटपटुधी: जगदनुग्रहायाङ्गीकृतकापव्या पट्टीया पट्वी तन्निपुणा
श्री

धी
र्यस्य स तथा दनुजं हिरण्याक्षं नन्दन् प्रशंसन् तव बलमपि निन्दन् शनैः

सानुनयमूचे उक्तवान् ॥ १ ॥
 

 
श्रीनारदोक्तिमेव दर्शयति
 
--
 
स मायावी विष्णुहरति भवदीयां वसुमती
 
तीं
प्रभो ! कष्टं कष्टं किमिदमिति तेनाभिगदितः ।
नन् का

नदन् क्वा
सौ कासाविति स मुनिना दर्शितपथो

भवन्तं संप्रापद् धरणिधर मुद्यन्तमुद्रादकात् ॥ २ ॥
 
[स्कन्धः - ३
 

 
स इति । स विष्णु मायावी भवद्भिया वराहव्याजेनात्मानमाच्छाद्य

भवदीयां भवता ब्रह्मणोऽपहृत्य रसातले निवेशितां, वसुमतीमिति । अनेनोपेक्षानौचित्यं

द्योतयति । प्रभो! तन्निवारणसमर्थ ! कष्टं कष्टं किमिदम् अहो मन्दा अपि प्रभून्

धिहुक्कुर्वन्ति, प्रभवश्चोपेक्षापराः कोऽयं क्रम इति तेनाभिगदितः प्रोत्साहितः स नदन्

सिंहनादं कुर्वन् क्वासौ क्वासाविति साभिनिवेशं पृष्टेन मुनिना इत इत इति दर्शितः

पन्था यस्य सः धरणिधरम् उदकादुद्यन्तं भवन्तं संप्रापत् संप्राप्तवान् ॥ २ ॥
 

 
दर्शनसमनन्तरमेव स भगवन्तमधिक्षिप्तवानित्याह-
-
 
अहो आरण्योऽयं मृग इति हसन्तं बहुतरै-

र्
दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् ! ।

महीं दृष्ट्वा दंष्ट्राशर॑शिरसि चकितां स्वेन महसा

पयोधावाधाय प्रसभमुदयुङ्क्था मृधविधौ ॥ ३ ॥
 
-