2023-02-16 08:52:09 by ambuda-bot
This page has not been fully proofread.
दशकम् - १२]
भूम्युद्धरणवर्णनम् ।
अन्तर्जलमिति । तदनु जलप्रवेशानन्तरं त्वं सङ्कलनकचक्रं भ्राम्याहस-
मूहं भ्राम्यत्तिमिङ्गिलकुलं भ्राम्यन्त इतस्ततः सञ्चरन्तः तिमिङ्गिला अनेकयोजना-
यामविस्तारा महामत्स्याः, तेषां कुलं समूहो यस्मिन् । क्षुब्धजलत्वात् कलुषा
आविला ऊर्मिमालाः तरङ्गसमूहा यस्मिंस्तद् अन्तर्जलं जलमध्यम् आविश्य
भीषणरवेण रसातलस्थान् जनान् आ समन्तात् कम्पयन् वसुमतीं निजप्रियां
भूमिम् अगवेषयः अन्वेषणमकरोरित्यर्थः ॥ ८ ॥
दृष्ट्वा दैत्यहतकेन रसातलान्ते
संवेशितां झटिति कूटकिटिर्विभो ! त्वम् ।
आपातुकानविगणय्य सुरारिखेडान्
दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् ॥ ९ ॥
-
दृष्ट्वेति । अथ अनन्तरं दैत्यहतकेन असुराधमेन हिरण्याक्षेण रसातलान्ते
संवेशितां विन्यस्तां वसुधां भूमिं हे विभो ! कूटकिटिमीयावराहबपुस्त्वम् आपातु-
कान् आगच्छतः सुरारिखेटान् असुरापशदान् अविगणय्य तृणीकृत्य दंष्ट्राङ्कुरेण
दशनाग्रेण सलीलं यथा भवति तथा अद्धाः उद्धृतवानसि ॥ ९ ॥
अभ्युद्धरनथ धरां दशनाग्रलग्न-
मुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा ।
उद्घृतधोरसलिलाजलधेरुदञ्चन्
क्रीडावराहवपुरीश्वर ! पाहि रोगात् ॥ १० ॥
P
अभ्युद्धरन्निति । अथ धरामभ्युद्धरन् दशनामलग्नमुस्ताङ्कुराङ्कित इव
यथान्यो वराहः पल्वले मुस्ताक्षतिं कुर्वन् दशनाये मुस्ताङ्कुरेणाङ्कितो भवति,
तद्वद् दर्शनीयो भवन् अधिकपीवरात्मा अतिपीनकायः उद्भूतं संक्षुब्धं घोरं भय-
ङ्करं सलिलं यस्मिन्, तस्माज्जलधेरुदञ्चन्नुन्मज्जन् हे क्रीडावराहवपुः ! क्रीडार्थ धृत-
वराहतनो ! हे ईश्वर ! त्वं रोगात् पाहि ॥ १० ॥
इति बराहावतार भूम्युद्धरणवर्णनं द्वादशं दशकम् ।