This page has been fully proofread once and needs a second look.

दशकम् - १२]
 
भूम्युद्धरणवर्णनम् ।
 
अन्तर्जलमिति । तदनु जलप्रवेशानन्तरं त्वं सङ्कलनककुलनक्रचक्रं भ्राम्याद्ग्राहस-

मूहं भ्राम्यत्तिमिङ्गिलकुलं भ्राम्यन्त इतस्ततः सञ्चरन्तः तिमिङ्गिला अनेकयोजना-

यामविस्तारा महामत्स्याः, तेषां कुलं समूहो यस्मिन् । क्षुब्धजलत्वात् कलुषा

आविला ऊर्मिमालाः तरङ्गसमूहा यस्मिंस्तद् अन्तर्जलं जलमध्यम् आविश्य

भीषणरवेण रसातलस्थान् जनान् आ समन्तात् कम्पयन् वसुमतीं निजप्रियां

भूमिम् अगवेषयः अन्वेषणमकरोरित्यर्थः ॥ ८ ॥
 

 
दृष्ट्वा दैत्यहतकेन रसातलान्ते
 

संवेशितां झटिति कूटकिटिर्विभो ! त्वम् ।

आपातुकानविगणय्य सुरारिखेडान्
 
टान्
दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् ॥ ९ ॥
 
-
 

 
दृष्ट्वेति । अथ अनन्तरं दैत्यहतकेन असुराधमेन हिरण्याक्षेण रसातलान्ते

संवेशितां विन्यस्तां वसुधां भूमिं हे विभो ! कूटकिटिमीर्मायावराहपुस्त्वम् आपातु-

कान् आगच्छतः सुरारिखेटान् असुरापशदान् अविगणय्य तृणीकृत्य दंष्ट्राङ्कुरेण

दशनाग्रेण सलीलं यथा भवति तथा अद्धाः उद्धृतवानसि ॥ ९ ॥
 

 
अभ्युद्धरन्नथ धरां दशनाग्रलग्न-

मुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा ।

उद्घृतधोधूतघोरसलिलाज्जलधेरुदञ्चन्

क्रीडावराहवपुरीश्वर ! पाहि रोगात् ॥ १० ॥
 
P
 

 
अभ्युद्धरन्निति । अथ धरामभ्युद्धरन् दशनामलग्रलग्नमुस्ताङ्कुराङ्कित इव

यथान्यो वराहः पल्वले मुस्ताक्षतिं कुर्वन् दशनायेग्ने मुस्ताङ्कुरेणाङ्कितो भवति,

तद्वद् दर्शनीयो भवन् अधिकपीवरात्मा अतिपीनकायः उद्भूधूतं संक्षुब्धं घोरं भय-

ङ्करं सलिलं यस्मिन्, तस्माज्जलधेरुदञ्चन्नुन्मज्जन् हे क्रीडावराहवपुः ! क्रीडार्थं धृत-

वराहतनो ! हे ईश्वर ! त्वं रोगात् पाहि ॥ १० ॥
 

 
इति राहावतार -भूम्युद्धरणवर्णनं द्वादशं दशकम् ।