This page has not been fully proofread.

[स्कन्धः - ३
 
विचिन्तयति सति सद्यः शैलमात्र: शैलद्वयसवपुर्भवन् त्वं घोरघोरम् अतिशयेन
भयङ्करं यथा भवति तथा जगर्जिथ किल ॥ ५ ॥
 
नारायणाय
 
तं ते निनादमुपकर्ण्य जनस्तपःस्थाः
सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् ।
तत्स्तोत्रहर्षुलमनाः परिणद्य भूय-
स्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥ ६ ॥
 
तमिति । ते तव तं निनादं गर्जितं जनस्तपःस्थाः जनस्तपोलोकस्था अपी-
त्यर्थः । सत्यस्थिताः सत्यलोकस्था नुनुवुः तुष्टुवुः । तत्स्तोत्रेण तेन स्तोत्रेण हर्षु-
लमनाः प्रसन्नचेताः सन् विपुलमूर्तिः पूर्वस्मादतिविस्तृतकायः सन् त्वं भूयः पुन-
रपि तेषां प्रसादाय परिणद्य गर्जन् तोयाशयं प्रलयाब्धिमवातरः अवगाहसे स्म ॥
 
ऊर्ध्वमसारिपरिधूम्रविधूतरोमा
प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः ।
तूर्णमदीर्णजलदः परिघूर्णदक्षणा
 
स्तोतन मुनीञ्छिशिरयन्नवतेरिथ त्वम् ॥ ७ ॥
 
3
 
ऊर्ध्वेति । ऊर्ध्व प्रसरणशीलानि परिधूम्राणि कृष्णलोहितानि विधूतानि
कम्पितानि रोमाणि यस्य स तथा । उत्क्षिप्तवालधिः उन्नीतपुच्छः अवाङ्मुखा
अधःकृता घोरा भयङ्करौकारा घोणा नासिका यस्य, स तथा । तूर्णम् अतिलघु
प्रदीर्णाः शकलक्विता जलदा येन । परिघूर्णता अक्षणा कम्पितपिङ्गलितोच्छूनाक्षि-
द्वयेन प्रकटितानुकम्पेन स्तोतॄन् मुनीन् शिशिरयन् आनन्दयन् त्वमवतेरिथ अब-
जगाहिषे ॥ ७ ॥
 
अन्तर्जलं तदनु सकुलनक्रचक्रं
भ्राम्यत्तिमिङ्गिलकुलं कलुपोर्मिमालम् ।
आविश्य भीषणरवेण रसातलस्था-
नाकम्पयन् वसुमतीमगवेषयस्त्वम् ॥ ८ ॥
 
१. 'रा घो' क. पाठः.