This page has been fully proofread once and needs a second look.

[स्कन्धः - ३
 
विचिन्तयति सति सद्यः शैलमात्र: शैलद्वयसवपुर्भवन् त्वं घोरघोरम् अतिशयेन

भयङ्करं यथा भवति तथा जगर्जिथ किल ॥ ५ ॥
 
नारायणाय
 

 
तं ते निनादमुपकर्ण्य जनस्तपःस्थाः

सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् ।

तत्स्तोत्रहर्षुलमनाः परिणद्य भूय-

स्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥ ६ ॥
 

 
तमिति । ते तव तं निनादं गर्जितं जनस्तपःस्थाः जनस्तपोलोकस्था अपी-

त्यर्थः । सत्यस्थिताः सत्यलोकस्था नुनुवुः तुष्टुवुः । तत्स्तोत्रेण तेन स्तोत्रेण हर्षु-

लमनाः प्रसन्नचेताः सन् विपुलमूर्तिः पूर्वस्मादतिविस्तृतकायः सन् त्वं भूयः पुन-

रपि तेषां प्रसादाय परिणद्य गर्जन् तोयाशयं प्रलयाब्धिमवातरः अवगाहसे स्म ॥
 

 
ऊर्ध्वप्रसारिपरिधूम्रविधूतरोमा

प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः ।

तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा
 

स्तोतॄन मुनीञ्छिशिरयन्नवतेरिथ त्वम् ॥ ७ ॥
 
3
 

 
ऊर्ध्वेति । ऊर्ध्वं प्रसरणशीलानि परिधूम्राणि कृष्णलोहितानि विधूतानि

कम्पितानि रोमाणि यस्य, स तथा । उत्क्षिप्तवालधिः उन्नीतपुच्छः अवाङ्मुखा

अधःकृता घोरा भयङ्करौरा[^१]कारा घोणा नासिका यस्य, स तथा । तूर्णम् अतिलघु

प्रदीर्णाः शकलक्विलीकृता जलदा येन । परिघूर्णता अक्ष्णा कम्पितपिङ्गलितोच्छूनाक्षि-

द्वयेन प्रकटितानुकम्पेन स्तोतॄन् मुनीन् शिशिरयन् आनन्दयन् त्वमवतेरिथ अब-

जगाहिषे ॥ ७ ॥
 

 
अन्तर्जलं तदनु सङ्कुलनक्रचक्रं

भ्राम्यत्तिमिङ्गिलकुलं कलुपोषोर्मिमालम् ।

आविश्य भीषणरवेण रसातलस्था-

नाकम्पयन् वसुमतीमगवेषयस्त्वम् ॥ ८ ॥
 

 
[^
]. 'रा घो' क. पाठः.