This page has been fully proofread once and needs a second look.

वराहावतारवणनम् ।
 
इत्थं त्वदङ्घ्रियुगलं शरणं यतोऽस्य
 

नासापुटात् समभवः शिशुकोलरूपी ॥ ३ ॥
 
दशकम् - १२]
 

 
हाहेति । हे विभो ! हाहा कष्टं जातम् । अहं पुरस्ताद् जनसर्गात् प्रागेव

पृथिवीनिवेशनाय जलं न्यपिबं पीतवानस्मि । अद्यापि तुच्छीकृते जले मही

मज्जति । अहं भवता सर्गे योजितः सन्नपि किं करोमि । अस्मिन् कर्मण्यस्माकं

त्वमेव शरणम् । इत्थं त्वदङ्घ्रियुगलं शरणं यतः प्रामुप्नुवतः अस्य ब्रह्मणः नासा-

पुटाद् नासिकोदरतः शिशुकोलरूपी वराहतोकरूपं बिभ्रत् समभवः अवतीर्णो-

ऽभूरित्यर्थः ॥ ३ ॥
 

 
अङ्गु
ष्टमात्रवपुरुत्पतितः पुरस्ताद्
 

भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वम् ।

अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चै-
विं

र्वि
स्मेरतां विधिरगात् सह मृसूनुभिः स्वैः ॥ ४ ॥
 

 
अङ्गुष्ठेति । त्वं पुरस्तात् पूर्वीवं नासापुटाद् अङ्गुष्ठमात्रवपुः अङ्गुष्ठैठ[^१]मा-

त्रपरिमितशरीरः सन् उत्पतितः । अथ अनन्तरं भूयः पुनश्च कुम्भिसदृशो गज-

मात्रः समजृम्भथाः ववृधिषे । तथाविधं क्षणेन वर्धिष्णुम् अभ्रे मेघमार्गे उच्चैः

उन्नतमुदीक्ष्य मुखान्युन्नमय्य दृष्ट्वा विधिः ब्रह्मा विस्मेरतां विस्मितत्वम् अगात्

प्राप । सह सूनुभिः स्वैरिति । सूनवो मरीच्यादयः, तेऽपि विस्मिता बभूवुरित्यर्थः ॥
 

 
कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे
 

घो[^२]णापुटात् किमु भवेदजितस्य माया ।

इत्थं विचिन्तयति धातरि शैलमात्रः
 

सद्यो भवन् किल जगजिंर्जिथ घोरघोरम् ॥ ५॥
 

 
कोऽसाविति । अचिन्त्यमहिमा अपरिच्छेद्यशरीरमहत्त्वः अप्रमेयप्रभावो

वा क्रिटिः सूकरो मे घोणापुटाद् नासापुटाद् उत्थित उत्पन्नः । अजितस्य विष्णो-

र्माया किमु भवेत् स एव मायया सूकरमूर्तिरवतीर्णः किमु भवेत् । धातरि इत्थं
 

 
[^
]. 'ष्टाग्रप' ख. पाठ:. ठः
[^
]. 'नासापु' क. पाठ:.
 
ठः