This page has not been fully proofread.

७२
 
नारायणीये
 
विशेषतो मरणदशायामित्यपि सूचितम् ॥ १० ॥
 
इति
 
सनकादिवैकुण्ठप्रवेश-जयविजयशाप-हिरण्यकशिपुहिरण्याक्षोत्पत्तिवर्णनम्
 
एकादशं दशकम् ।
 
अथ वराहावतारहिरण्याक्षववाद्यवतारयितुं मनोः प्रवृत्तिमाह -
स्वायम्भुवो मनुरथो जनसर्गशीलो
दृष्टा महीमसमये सलिले निमनाम् ।
स्रष्टारमाप शरणं भवदङ घिसेवा-
तुष्टाशयं मुनिजनैः सह सत्यलोके ॥ १ ॥
 
[स्कन्धः - ३
 
स्वायम्भुव इति । अथो प्रजासर्गे ब्रह्मणो निदेशानन्तरं जनसर्गः प्रजो-
त्पादनं शीलं यस्य स जनसर्गशील असमये अनासन्नेऽपि प्रलयकाले स्रष्टारं
स्वजनकं ब्रह्माणं भवदङ्घ्रिसेवया त्वत्पादाम्बुजोपासनया तुष्टाशयं सन्तुष्टमनसं
मुनिजनैः सह सत्यलोके स्थितम् । मुनिजनैः सह शरणमापेति वा ॥ १ ॥
 
कष्टं मजाः सृजति मय्यवनी निमग्रा
स्थानं सरोजभव! कल्पय तत् प्रजानाम् ।
इत्येवमेष कथितो मनुना स्वयम्भू-
रम्भोरुहाक्ष ! तव पादयुगं व्यचिन्तीत् ॥ २ ॥
 
कष्टमिति । हे सरोजभव ! मयि प्रजाः सृजति सति अवनिः प्रलयाम्भसि
निमनाभूत् कष्टम् अनाश्रयत्वान्नाहं भवन्निदेशं कर्तुं समर्थः । तत् तस्मात् प्रजानां
मम च स्थानं कल्पय इत्येवं मनुना कथितो विज्ञापितः एष स्वयम्भूः हे अम्भो-
रुहाक्ष ! तव पादयुगं व्यचिन्तीत् चिन्तयामास ॥ २ ॥
 
चिन्तयंस्तत्क्षणमेव हृदि दर्शनं गतं भवन्तं खिन्दानमानसश्चैवमाह -
 
हा हा विभो ! जलमहं न्यपिवं पुरस्ता-
दद्यापि मज्जति मही किमहं करोमि ।
 
CATORZETOR