This page has been fully proofread once and needs a second look.

७२
 
नारायणीये
 
विशेषतो मरणदशायामित्यपि सूचितम् ॥ १० ॥
 

 
इति
 
सनकादिवैकुण्ठप्रवेश-जयविजयशाप-हिरण्यकशिपुहिरण्याक्षोत्पत्तिवर्णनम्
 

 
एकादशं दशकम् ।
 

 
अथ वराहावतारहिरण्याक्षववाधाद्यवतारयितुं मनोः प्रवृत्तिमाह -
--
 
स्वायम्भुवो मनुरथो जनसर्गशीलो

दृष्टाट्वा महीमसमये सलिले निमनाम् ।

स्रष्टारमाप शरणं भवदङ घिसेवा-
तुष्टाशयं मुनिजनैः सह सत्यलोके ॥ १ ॥
 
[स्कन्धः - ३
 
स्वायम्भुव इति । अथो प्रजासर्गे ब्रह्मणो निदेशानन्तरं जनसर्गः प्रजो-
त्पादनं शीलं यस्य स जनसर्गशील असमये अनासन्नेऽपि प्रलयकाले स्रष्टारं
स्वजनकं ब्रह्मा
णं भवदङ्घ्रिसेवा-
तुष्टाशयं मुनिजनैः सह सत्यलोके ॥ १ ॥
 
स्वायम्भुव इति । अथो प्रजासर्गे ब्रह्मणो निदेशानन्तरं जनसर्गः प्रजो-
त्पादनं शीलं यस्य स जनसर्गशीलः असमये अनासन्नेऽपि प्रलयकाले स्रष्टारं
स्वजनकं ब्रह्माणं भवदङ्घ्रिसे
वया त्वत्पादाम्बुजोपासनया तुष्टाशयं सन्तुष्टमनसं

मुनिजनैः सह सत्यलोके स्थितम् । मुनिजनैः सह शरणमापेति वा ॥ १ ॥
 

 
कष्टं प्रजाः सृजति मय्यवनी निमग्रा

स्थानं सरोजभव! कल्पय तत् प्रजानाम् ।

इत्येवमेष कथितो मनुना स्वयम्भू-

रम्भोरुहाक्ष ! तव पादयुगं व्यचिन्तीत् ॥ २ ॥
 

 
कष्टमिति । हे सरोजभव ! मयि प्रजाः सृजति सति अवनिः प्रलयाम्भसि

निमग्नाभूत् कष्टम् अनाश्रयत्वान्नाहं भवन्निदेशं कर्तुं समर्थः । तत् तस्मात् प्रजानां

मम च स्थानं कल्पय इत्येवं मनुना कथितो विज्ञापितः एष स्वयम्भूः हे अम्भो-

रुहाक्ष ! तव पादयुगं व्यचिन्तीत् चिन्तयामास ॥ २ ॥
 

 
चिन्तयंस्तत्क्षणमेव हृदि दर्शनं गतं भवन्तं खिन्दानमानसश्चैवमाह -
 
--
 
हा हा विभो ! जलमहं न्यपिवंबं पुरस्ता-

दद्यापि मज्जति मही किमहं करोमि ।
 
CATORZETOR