2023-02-16 08:52:09 by ambuda-bot
This page has not been fully proofread.
दशकम् - ११]
हिरण्यकशिपुहिरण्याक्षोत्पत्तिवर्णनम् ।
७१
थितचित्ता बलाहपेर्वासो जग्राह । स च तथा सहोपविवेशेति । अतः सन्ध्यायां
समुत्पादनेन कष्टचेष्टौ क्रूरकर्माणौ यमौ युगपदेकगर्भधृतौ यमौ लोकस्य जनस्या-
न्यौ यमौ क्रूरकर्मणा वैवस्वताद् यमादन्यावन्तकौ (इव) बभूवतुरित्यर्थः ॥ ७ ॥
5
हिरण्यपूर्वः कशिपुः किलैकः परो हिरण्याक्ष इति प्रतीतः ।
उभौ भवन्नाथमशेषलोकं रुपा न्यरुन्धां निजवासनान्धौ ॥ ८ ॥
हिरण्यपूर्व इति । तयोरेको ज्येष्ठो हिरण्यपूर्वः कशिपुः हिरण्यकशिपुरिति
प्रतीतः प्रसिद्धः । परोऽनुजो हिरण्याक्ष इति प्रसिद्धः । तावुभौ भवान् नाथो
रक्षिता यस्य स भवन्नाथः तमशेषलोकं सर्वलोकवासिनो जनान् रुषा न्यरुन्धां
पीडयामासतुः । निजवासनया आसुरेण स्वभावेन अन्धौ बिभ्रंशितपरमार्थज्ञाना-
वित्यर्थः ॥ ८ ॥
तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी ।
भवत्मियां क्ष्मां सलिले निमज्ज्य चचार गर्वाद् विनदन् गदावान् ॥ ९ ॥
तयोरिति । तयोर्मध्ये हिरण्याक्षमहासुरेन्द्रः त्रिलोक्यां रणाय धावन्नन-
वाप्तवैरी देवानपि प्रतियोगितयालभमानः भवत्प्रियां क्ष्मां भूमिं सलिले प्रलयार्णवे
निमज्ज्य भूमिं कर्णाभरणीकृत्य जले निमग्नः सन् गदावान् अंसन्यस्तमहागदः
गर्वाद् विनदंश्चचार ॥ ९ ॥
ततो जलेशात् सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् ।
भक्तैकदृश्यः स कृपानिधे ! त्वं निरुन्धि रोगान् मरुदालयेश ! ॥ १० ॥
तत इति । ततो जानुदघ्नजले वारिनिधौ क्रीडिष्यन् विभावरीं वरुणपुरीं
गत्वा तं संयुगायाह्वयत् । ततो जलेशाद् वरुणमुखाद् भवन्तं सदृशं निशम्य रण-
मार्गेषु भवतः सदृशः पुराणपुरुष: श्रीनारायण एक एवेति श्रुत्वायं त्वां गवेषयन्
मृगयन् बभ्राम। स त्वं भक्तकदृश्य इति । केवलं भक्तैरेव प्रह्लादनारदादिभिः दृश्यः
द्रष्टुं शक्यः । ननु भक्तैकदृश्यश्चेद् भगवान्, उपरि "भवन्तं संप्रापद्" (द. १३.
लो. २) इत्युक्तिरनुपपन्नेति चेद्, मैवं, हिरण्याक्षो हि रौद्ररसोपायेन भगवति
मनोनिवेशनाद्' भक्तः । 'तस्मात् केन। प्युपायेन मनः कृष्णे निवेशयेद्' (श्री. भा.
स्क. ७. अ. १. श्लो. ३४) इति वचनात् । अतोऽस्य भगवद्दर्शनं सम्भवति ।