This page has been fully proofread once and needs a second look.

दशकम् - ११]
 
हिरण्यकशिपुहिरण्याक्षोत्पत्तिवर्णनम् ।
 
७१
 
थितचित्ता बलाहपेदृषेर्वासो जग्राह । स च तथाया सहोपविवेशेति । अतः सन्ध्यायां

समुत्पादनेन कष्टचेष्टौ क्रूरकर्माणौ यमौ युगपदेकगर्भधृतौ यमौ, लोकस्य जनस्या-

न्यौ यमौ क्रूरकर्मणा वैवस्वताद् यमादन्यावन्तकौ (इव) बभूवतुरित्यर्थः ॥ ७ ॥
 
5
 

 
हिरण्यपूर्वः कशिपुः किलैकः परो हिरण्याक्ष इति प्रतीतः ।

उभौ भवन्नाथमशेषलोकं रुपाषा न्यरुन्धां निजवासनान्धौ ॥ ८ ॥
 

 
हिरण्यपूर्व इति । तयोरेको ज्येष्ठो हिरण्यपूर्वः कशिपुः हिरण्यकशिपुरिति

प्रतीतः प्रसिद्धः । परोऽनुजो हिरण्याक्ष इति प्रसिद्धः । तावुभौ भवान् नाथो

रक्षिता यस्य स भवन्नाथः, तमशेषलोकं सर्वलोकवासिनो जनान् रुषा न्यरुन्धां

पीडयामासतुः । निजवासनया आसुरेण स्वभावेन अन्धौ बिभ्रंशितपरमार्थज्ञाना-

वित्यर्थः ॥ ८ ॥
 

 
तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी ।
भवत्मि

भवत्प्रि
यां क्ष्मां सलिले निमज्ज्य चचार गर्वाद् विनदन् गदावान् ॥ ९ ॥
 

 
तयोरिति । तयोर्मध्ये हिरण्याक्षमहासुरेन्द्रः त्रिलोक्यां रणाय धावन्नन-

वाप्तवैरी देवानपि प्रतियोगितयालभमानः भवत्प्रियां क्ष्मां भूमिं सलिले प्रलयार्णवे

निमज्ज्य भूमिं कर्णाभरणीकृत्य जले निमग्नः सन् गदावान् अंसन्यस्तमहागदः

गर्वाद् विनदंश्चचार ॥ ९ ॥
 

 
ततो जलेशात् सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् ।

भक्तैकदृश्यः स कृपानिधे ! त्वं निरुन्धि रोगान् मरुदालयेश ! ॥ १० ॥
 

 
तत इति । ततो जानुदघ्नजले वारिनिधौ क्रीडिष्यन् विभावरीं वरुणपुरीं

गत्वा तं संयुगायाह्वयत् । ततो जलेशाद् वरुणमुखाद् भवन्तं सदृशं निशम्य रण-

मार्गेषु भवतः सदृशः पुराणपुरुष: श्रीनारायण एक एवेति श्रुत्वायं त्वां गवेषयन्

मृगयन् बभ्राम। स त्वं भक्तैकदृश्य इति । केवलं भक्तैरेव प्रह्लादनारदादिभिः दृश्यः

द्रष्टुं शक्यः । ननु भक्तैकदृश्यश्चेद् भगवान्, उपरि "भवन्तं संप्रापद्" (द. १३.

श्
लो. २) इत्युक्तिरनुपपन्नेति चेद्, मैवं, हिरण्याक्षो हि रौद्ररसोपायेन भगवति

मनोनिवेशनाद्' भक्तः । 'तस्मात् केन। नाप्युपायेन मनः कृष्णे निवेशयेद्' (श्री. भा.

स्क. ७. अ. १. श्लो. ३४) इति वचनात् । अतोऽस्य भगवद्दर्शनं सम्भवति ।