This page has not been fully proofread.

नारायणाय
 
[स्कन्धः-३
 
तदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या वहिरम्बुजाक्ष ! ।
खगेश्वरांसार्पितचारुबाहुरानन्दयंस्तानभिराममूर्त्या
 
॥ ५ ॥
 
तदेतदिति । तस्मिन्नवसरे अम्बुजाक्ष ! भवान् एतत् *स्वीयानां सदति-
क्रमादिकम ज्ञाय विबुध्य लक्ष्म्या सहैव बहिः मणिभवनस्य बाह्याङ्कणे अवाप्तः
निष्क्रान्तः खगेश्वरस्य श्रीगरुडस्यांसे समर्पितो विन्यस्तः चारुबाहुः आजानुलम्बी
पीवरो भुजो यस्य किञ्चिद् वामपार्श्वलम्बितमूर्तितया श्रीगरुडस्य वामांसदेशदत्त-
कराम्बुज इत्यर्थः । अभिरामया अतिमनोहरया मूर्त्या तान् मुनीन्द्रान् आनन्दयन्
ब्रह्मानन्दपरितृप्तानामपि शरीरमनः क्षोभं जनयन्नित्यर्थः ॥ ९ ॥
 
प्रसाद्य गीर्भि: स्तुत्रतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ ।
संरम्भयोगेन भवैस्त्रिभिमीमुपेतमित्यात्तकृपं न्यगादीः ॥ ६ ॥
 
प्रसाद्येति । ततश्च त्वं स्तुवतः त्वदर्शनानन्तरं मूर्ध्ना प्रणम्य स्तुवतो
मुनीन्द्रान् माध्वीभिर्गीर्भिः प्रसाद्य अथ अनन्तरम् अनन्यनाथौ आत्मैकशरणौ
तौ सङ्कटस्थौ स्वपार्षदौ जयविजयौ आत्तकृपम् आत्ता अङ्गीकृता कृपा यस्मिन्नि-
ति क्रियाविशेषणम् । इत्येवं न्यगादीः उक्तवान् । कथमित्याह - त्रिभिर्हिरण्य-
कशिपुरावणशिशुपाला दिरूपैर्भवैर्जन्मभिः तत्र तत्र संरम्भयोगेन संरम्भकर्तृकेण माये
समाधिनैरन्तर्येण युवां मामुपेतं मत्समीपमागच्छतमिति न्यगादीरित्यर्थः ॥ ६ ॥
 
त्वदीयभृत्यौ किल काश्यपात् तौ सुरारिवीरावुदितौ दितौ द्वौ ।
सन्ध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ ॥ ७ ॥
 
* 'स्वानाम्' इति तु सर्वत्र पठ्यते ।
 
त्वदीयेति । तौ त्वदीयभृत्यौ भवत्पार्षदौ काश्यपान्मुनेर्दितौ तद्भार्यायां
द्वौ सुरारिवीरौ हिरण्यकशि पुहिरण्याक्षनामधेयावसुरश्रेष्ठौ उदितौ उत्पन्नौ किल ।
सन्ध्यासमुत्पादनकष्टचेष्टाविति दितिः किल सपत्नीनां पुत्रसमृद्ध्या सन्तप्तहृदया
सती काश्यपं स्वभर्तारं सन्ध्यायामग्निमिाग्न्यगार आसीनं कामातुरा मयि पुत्र
मुत्पादयेति प्रार्थितवती । तेन च सन्ध्येयं क्षणं प्रतिपालयेत्युक्तापि मन्मथोन्म-