This page has been fully proofread once and needs a second look.

नारायणाय
 
[स्कन्धः-३
 
तदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या हिरम्बुजाक्ष ! ।

खगेश्वरांसार्पितचारुबाहुरानन्दयंस्तानभिराममूर्त्या
 
॥ ५ ॥
 

 
तदेतदिति । तस्मिन्नवसरे अम्बुजाक्ष ! भवान् एतत् [^*]स्वीयानां सदति-

क्रमादिकमाज्ञाय विबुध्य लक्ष्म्या सहैव बहिः मणिभवनस्य बाह्याङ्कणे अवाप्तः

निष्क्रान्तः खगेश्वरस्य श्रीगरुडस्यांसे समर्पितो विन्यस्तः चारुबाहुः आजानुलम्बी

पीवरो भुजो यस्य किञ्चिद् वामपार्श्वलम्बितमूर्तितया श्रीगरुडस्य वामांसदेशदत्त-

कराम्बुज इत्यर्थः । अभिरामया अतिमनोहरया मूर्त्या तान् मुनीन्द्रान् आनन्दयन्

ब्रह्मानन्दपरितृप्तानामपि शरीरमनः क्षोभं जनयन्नित्यर्थः ॥ ९ ॥
 

 
प्रसाद्य गीर्भि: स्तुत्रतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ ।

संरम्भयोगेन भवैस्त्रिभिमीर्मामुपेतमित्यात्तकृपं न्यगादीः ॥ ६ ॥
 

 
प्रसाद्येति । ततश्च त्वं स्तुवतः त्वद्दर्शनानन्तरं मूर्ध्ना प्रणम्य स्तुवतो

मुनीन्द्रान् माध्वीभिर्गीर्भिः प्रसाद्य अथ अनन्तरम् अनन्यनाथौ आत्मैकशरणौ

तौ सङ्कटस्थौ स्वपार्षदौ जयविजयौ आत्तकृपम् आत्ता अङ्गीकृता कृपा यस्मिन्नि-

ति क्रियाविशेषणम् । इत्येवं न्यगादीः उक्तवान् । कथमित्याह - -त्रिभिर्हिरण्य-

कशिपुरावणशिशुपाला दिरूपैर्भवैर्जन्मभिः तत्र तत्र संरम्भयोगेन संरम्भकर्तृकेण माये

समाधिनैरन्तर्येण युवां मामुपेतं मत्समीपमागच्छतमिति न्यगादीरित्यर्थः ॥ ६ ॥
 

 
त्वदीयभृत्यौ किल काश्यपात् तौ सुरारिवीरावुदितौ दितौ द्वौ ।

सन्ध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ ॥ ७ ॥
 
* 'स्वानाम्' इति तु सर्वत्र पठ्यते ।
 

 
त्वदीयेति । तौ त्वदीयभृत्यौ भवत्पार्षदौ काश्यपान्मुनेर्दितौ तद्भार्यायां

द्वौ सुरारिवीरौ हिरण्यकशि पुहिरण्याक्षनामधेयावसुरश्रेष्ठौ उदितौ उत्पन्नौ किल ।

सन्ध्यासमुत्पादनकष्टचेष्टाविति दितिः किल सपत्नीनां पुत्रसमृद्ध्या सन्तप्तहृदया

सती काश्यपं स्वभर्तारं सन्ध्यायामग्निमिामिष्ट्वाग्न्यगार आसीनं कामातुरा मयि पुत्र

मुत्पादयेति प्रार्थितवती । तेन च सन्ध्येयं क्षणं प्रतिपालयेत्युक्तापि मन्मथोन्म-

 
[^*] 'स्वानाम्' इति तु सर्वत्र पठ्यते ।