This page has not been fully proofread.

दशकम् - ११]
 
-
 
सनकादीनां वैकुण्ठप्रवेशवर्णनम् ।
 
विकुण्ठनिलयं वर्णयति--
-
 
मनोज्ञनैःश्रेयसकाननाद्यैरनेकवापीमणिमन्दिरैश्च ।
 
अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः ॥ २ ॥
मनोज्ञेति । मनोज्ञैः सर्वर्तुशोभादिभिरतिमनोहरैः नैःश्रेयसकाननाद्यैः
निःश्रेयसं कैवल्यमेव मूर्तिमत्त्वेन स्थितमिति नैःश्रेयसं नाम काननमुद्यानं
तदाद्यैः अनेकैः वाप्यो दीर्घिकाः मणिमन्दिराणि रत्नमयानि भवनानि तैः अनो-
पमम् अनुपमं तं सर्वलोकाभिवन्द्यं भवतो निकेतं विकुण्ठनिलयं मुनीश्वराः सन-
कादयः अतीतकक्ष्याः परिखाप्राकारादिविभक्ताः षट् कक्ष्या अतीत्य भवननिक-
टस्थां सप्तमीं कक्ष्यां प्रापुरित्यर्थः ॥ २ ॥
 
भवद्दिदृक्षून् भवनं विविक्षून् द्वाःस्थौ जयस्तान् विजयोऽप्यरुन्धाम् ।
तेषां च चित्ते पदमाप कोपः सर्वे भवत्प्रेरणयैव भूमन् ! ॥ ३ ॥
 
भवदिति । भवद्दिदृक्षून् समाधिगम्यं भवन्तं नयनगोचरीकर्तुकामान्
तदर्थं भवनं भवन्मणिमन्दिरं विविक्षून प्रवेष्टुमारब्धान् तान् सनकादीन् जयो
विजयश्च द्वाःस्थौ भवत्सारूप्यं प्राप्तौ द्वारपालौ अरुन्धां वेत्रेण प्रत्यषेधतां, तत-
स्तेषां चित्ते कोपः पदमवकाशमाप च सर्व सनकादीनां वैकुण्ठप्राप्तिः, जयवि
जययोस्तत्प्रतिकूलाचरणं, मुनीनां कोपश्चैतत् सर्वे हे भूमन् ! भवतो वराहनरसिं-
हश्रीरामकृष्णाद्यवतारैः क्रीडिप्यतो भवत ईश्वरस्य प्रेरणयैवेत्यर्थः ॥ ३ ॥
 
एवं भगवदर्शनभङ्गे सात सञ्जातेषत्कोपा मुनयो द्वाःस्थौ शप्तवन्त इत्याह --
बैकुण्ठलोकानुचितप्रचेष्टौ कष्टौ युवां दैत्यगतिं भजेतम् ।
 
इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ॥ ४ ॥
वैकुण्ठलोकेति । रजस्तमःक्षोभरहिते वैकुण्ठलोके अनुचिता इतः प्राक्
कस्याप्यनुत्पन्ना प्रारब्धा सदतिक्रमरूपी चेष्टा व्यापारो ययोस्तौ कष्टौ अतिक्रूरौ
युवां दैत्यगतिम् आसुरीं योनिं भजेतं प्राप्नुतम् इति मुनिभिः प्रशप्तौ तौ भवदा-
श्रयौ भवत्किङ्करौ जयविजयौ नः अस्माकं हरिस्मृतिरस्तु युष्मदतिक्रमेण यां यां
योनिं व्रजामस्तत्र तत्रापि भगवत्स्मृतिरस्त्विति नेमतुः भुवि पतित्वा तेषां पादान्
सङ्गृह्यैवं प्रार्थयन्तौ नमश्चक्रतुरित्यर्थः ॥ ४ ॥
 
१. 'पा प्रचे' ख. पाठ:.