2023-02-16 08:52:09 by ambuda-bot
This page has not been fully proofread.
६८
नारायणीये
[स्कन्धः-३]
द्या इति पुराणस्यापि ग्रहण पुराणनिवहानिति तस्य पृथगुपादानं प्राधान्यख्याप-
नार्थम् । तदुक्तं-
"यश्चतुर्वेद
विद् विप्रः पुराणं वेत्ति नार्थतः ।
तं दृष्ट्वा भयमामोति वेदो मां प्रतरिष्यति ॥"
इति । किञ्चास्य पञ्चमवेदत्वात् सर्वमुखेभ्यः सृष्टत्वाच्च प्राधान्यम् । ता वि-
द्यास्तेषु मरीच्यादिषुं पुत्रेषु विनिधाय सङ्क्रमय्य स ब्रह्मा सर्गवृद्धिम् अप्राप्नुवन्
त्रिलोक्यां प्रजाविस्तारार्थं नित्यव्यापतोऽपि तदलाभात् तत्र दैवविरोधमाशङ्कय त-
न्निवृत्तये तव पदाम्बुजमाश्रितोऽभूत् चिन्तयामासेत्यर्थः ॥ ९ ॥
जाननुपायमथ देहमजो विभज्य
स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् ।
ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं
गोविन्द ! मारुतपुराधिप ! रुन्धि रोगान् ॥ १० ॥
जानन्निति । भवत्पदाम्बुजध्यानानुभावेन सर्गवृद्धावुपायज्ञोऽजः ब्रह्मा
स्वदेहं विभज्य द्विधा कृत्वा मनुः स्वायंभुवः तद्वधूः शतरूपा ताभ्यां स्त्रीपुंसभा-
वमभजत् स्वशरीरार्धेन शतरूपाम् अन्यार्धेन मनुं च ससर्जेत्यर्थः । ताभ्यां मनुश-
तरूपाभ्यां ब्रह्मण आदेशेन मैथुनधर्मेण प्रजासर्गे प्रवृत्ताभ्यां भुवि मनुष्यकुलानि
विवर्धयन् हे गोविन्द ! मारुतपुराधिप ! त्वं मम रोगान् रुन्धि वारयेत्यर्थः ॥ १० ॥
इति सृष्टिभेदवर्णनं दशमं दशकम् ।
क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते ।
भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश ! ॥ १ ॥
क्रमेणेति । दिव्या अप्राकृताः सात्त्विका इत्यर्थः । प्रपेदिरे प्रापुः ॥ १ ॥
१. 'णे त' ख. पाठः. २. 'घु वि' ख. पाठ:.