This page has been fully proofread once and needs a second look.

६८
 
नारायणीये
 
[स्कन्धः-३]
 
द्या इति पुराणस्यापि ग्रहणे[^१] पुराणनिवहानिति तस्य पृथगुपादानं प्राधान्यख्याप-

नार्थम् । तदुक्तं-
-
 
"यश्चतुर्वेद
 
विद् विप्रः पुराणं वेत्ति नार्थतः ।

तं दृष्ट्वा भयमामोप्नोति वेदो मां प्रतरिष्यति ॥"
 

 
इति । किञ्चास्य पञ्चमवेदत्वात् सर्वमुखेभ्यः सृष्टत्वाच्च प्राधान्यम् । ता वि-

द्यास्तेषु मरीच्यादिषुंषु[^२] पुत्रेषु विनिधाय सङ्क्रमय्य स ब्रह्मा सर्गवृद्धिम् अप्राप्नुवन्

त्रिलोक्यां प्रजाविस्तारार्थं नित्यव्यापृतोऽपि तदलाभात् तत्र दैवविरोधमाशङ्क्य त-

न्निवृत्तये तव पदाम्बुजमाश्रितोऽभूत् चिन्तयामासेत्यर्थः ॥ ९ ॥
 

 
जानन्नुपायमथ देहमजो विभज्य

स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् ।

ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं
 

गोविन्द ! मारुतपुराधिप ! रुन्धि रोगान् ॥ १० ॥
 

 
जानन्निति । भवत्पदाम्बुजध्यानानुभावेन सर्गवृद्धावुपायज्ञोऽजः ब्रह्मा

स्वदेहं विभज्य द्विधा कृत्वा मनुः स्वायंभुवः तद्वधूः शतरूपा ताभ्यां स्त्रीपुंसभा-

वमभजत् स्वशरीरार्धेन शतरूपाम् अन्यार्धेन मनुं च ससर्जेत्यर्थः । ताभ्यां मनुश-

तरूपाभ्यां ब्रह्मण आदेशेन मैथुनधर्मेण प्रजासर्गे प्रवृत्ताभ्यां भुवि मनुष्यकुलानि

विवर्धयन् हे गोविन्द ! मारुतपुराधिप ! त्वं मम रोगान् रुन्धि वारयेत्यर्थः ॥ १० ॥

 
इति सृष्टिभेदवर्णनं दशमं दशकम् ।
 

 
क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते ।

भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश ! ॥ १ ॥
 

 
क्रमेणेति । दिव्या अप्राकृताः सात्त्विका इत्यर्थः । प्रपेदिरे प्रापुः ॥ १ ॥
 

 
[^
]. 'णे त' ख. पाठः
[^२]
. २. 'घुषु वि' ख. पाठ:.
 
ठः