This page has been fully proofread once and needs a second look.

दशकम् - २०५
 
सृष्टिभदवणनम् ।
 
तस्येति । अथ तपश्चरणाय स्वपितरमनुज्ञाप्य रुद्रस्य तपोवनप्रवेशानन्तरं

सर्गरसिकस्य कथं स्रक्ष्यामीत्येवं चिन्तयतस्तस्याङ्गाद् मरीच्यादयो दश पुत्रा अ
-
जायन्त । तत्र मरीचिर्ब्रह्मणो मनसोऽजायत, अत्रिर्नेत्राद्, अङ्गिरा मुखतः, क्रतु-

मुनिः करात्, पुलहो नाभेः, पुलस्त्यः कर्णतः, भृगुस्त्वचः, वसिष्ठः प्राणादूद्, द-

क्षोऽङ्गुष्ठाद्, उत्सङ्गान्नारदश्चाजायत । भवदमिङ्घ्रिदासः भवतः श्रीपादाब्जयोर्दा-

सोऽहमित्यभिमन्यमान इत्यर्थः ॥ ७ ॥
 

 
धर्मादिकानभिसृजन्नथ कर्दमं च
 

वाणीं विधाय विधिरङ्गजसकुलोऽभूत् ।

त्वद्बोधितैः सनकदक्षप्रुमुखैस्तनूजै-

रुद्रोधितश्च विरराम तमो विमुञ्चन् ॥ ८ ॥
 

 
धर्मादिकानिति । विधेर्दक्षिणात् स्तनाद् धर्मः श्रीनारायणश्च जातः,

अधर्मो मृत्युश्च पृष्ठतः, हृदयात् कामः, भ्रुवोः क्रोधः, अधराल्लोभ इत्याद्यन्वेषणीयम् ।

अथ कर्दमं चाभिसृजन् छायायाः कर्दमो जात इत्यर्थः । अथ विधिर्वाणीं सरस्वतीं

विधाय अङ्गजसङ्कुलः कामपरवशोऽभूत् । ततः सर्वजनबुद्धिसाक्षिणा त्वया बोधितैः

सनकादिभिर्दक्षादिभिश्चैच[^१] तनूजैः पुत्रैरुद्बोधितः प्रतिबोधितः तमोऽज्ञानं विमुञ्चन्
बि

वि
रराम निवृत्तोऽभूत् ॥ ८ ॥
 

 
वेदान् पुराणनिवहानपि सर्वविद्याः

कुर्वन् निजाननगणाच्चतुराननोऽसौ ।

पुत्रेषु तेषु विनिधाय स सर्गवृद्धि-

मप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत् ॥ ९ ॥
 

 
वेदानिति । असौ चतुराननो ब्रह्मा निजाननगणात् चतुर्मुखेभ्यः वेदान्

ऋगादींश्चतुरः पुराणनिवहान् सङ्क्षेपरूपान् सर्वविद्याः शिक्षाद्यङ्गानि षड् मीमां-

साद्युपाङ्गानि चत्वारि, आयुर्वेदानुद्युपवेदाश्चत्वार इति चतुर्दश विद्याः । तत्र सर्ववि-

 
[^
]. 'श्च पु' स्व. पाठ: