This page has not been fully proofread.

8&
 
नारायणीये
 
एकादशाह्वयतयेति ।
 
"मनुर्मन्युर्महादेवो महाञ्छिव ऋतध्वजः ।
उरुरेता भवः कालो बामदेवो वृतत्रतः ॥"
 
[स्कन्धः - ३
 
(श्री भा. स्क. ३. अ. १२. श्लो. १२)
 
इत्येकादशनामभेदात् चकारात् स्थानभेदाच्च विभिन्नं भेदबुद्धिगोचरं रुद्रं विधाय
तेभ्यो दयिता वनिताश्चेति "धी त्तिरशनोमा च नियुत्सपिरिडाम्बिका । इरावती
सुधा दीक्षा" (श्री. भा. स्क. ३. अ. १२. लो. १३) इत्युक्ताः स्त्रियश्च दत्त्वा
ताबत्ति एकादशैव पदानि स्थानानि च अदत्त । तानि च "हृदिन्द्रियाण्यसुर्व्योम
बायुरनिर्जलं मही । सूर्यश्चन्द्ररतपश्चैव" श्री. भा. स्क. ३. अ. १२. श्लो. ११)
इत्युक्तानि स्थानानि च अदत्त दत्तवान् । भवत्रणुनः हृदि स्थितेनेश्वरेण प्रेरितः
विधिः तं रुद्रं नामादिभेदाद नेकत्वप्रतिभानेऽपि परमार्थत एकरूपं प्रजाविरचनाय
भार्यासु पुत्रानुत्पादयितुं सादरं संमानसहितं प्राह न्ययुत ॥ ५ ॥
 
रुद्राभिसृष्टभयदाकृतिरुद्रसङ्घ-
संपूर्यमाणभुवनयभीतचेताः ।
मा मा प्रजाः सृज तपश्चर मङ्गलाये-
त्याचष्ट तं कमलभूर्भवदीरितात्मा ॥ ६ ॥
 
'व' घ. पाठः,
 
रुद्रेति । रुद्राभिसृष्टः रुद्रेण स्वासु स्त्रीत्पादितः, भयदा वृषभारूढा भस्मा-
रागा धृतखड्वापरशुहरिणकपालचर्मवसना फणिपतिभूषणा बहिनयना आकृ
निर्वस्य तादृशेन रुद्रसङ्घन संपूर्यमाणं यद् भुवनत्रयं तस्माद् भीतचेताः तत्क्षणं
सङ्कृतेन भवतेरितः प्रेरित आत्मा मनो यस्य स कमलभूः ब्रह्मा तं रुद्रमाचष्ट आ-
ख्यातान् । मा मेदृशीः प्रजाः सृज किन्तु मङ्गलाय सर्वलोकसुखाय तपश्चरेति ॥ ६ ॥
तस्याथ सर्गरसिकस्य मरीचिरत्रि-
स्तत्राङ्गिराः क्रतुमुनिः पुलहः पुलस्त्यः ।
अङ्गादजायत गुगुच वसिष्ठदक्षौ
 
श्रीनारदथ भगवान् भवदङ्घ्रिदासः ॥ ७ ॥