This page has not been fully proofread.

सृष्टिभेदवर्णनम् ।
 
ते सृष्टिकर्माण तु तेन नियुज्यमाना-
स्त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥ ३ ॥
 
दशकम् - १०]
 

 
तावादति । यावदसौ त्वदीयचरणस्मरणेन शुद्धमना जातः, तावत् तस्मिन्
काले सनकसनन्दसनातनसनत्कुमारान् मनसा ससर्ज । ते तु सनकादयः तेन ब्र-
ह्मणा सृष्टिकर्मणि नियुज्यमानाः प्रेरिताः तस्य वाणीं नियोगरूपं वाक्यं न जगृहुः
नाङ्गीकृतवन्तः । तत्र हेतुः त्वत्पादभक्तिरसिका इति । त्वत्पादाम्बुजयोः या
प्रेमलक्षणा भक्तिः, तस्यां रसिका इच्छावन्तैः शरीरादिबन्धप्रदं सर्गकर्म नैच्छन्नि-
त्यर्थः ॥ ३ ॥
 
-
 
तावत् प्रकोपमुदितं प्रतिरुन्धतोऽस्य
भ्रूमध्यतोऽजनि मृडो भवदेकदेशः ।
नामानि मे कुरु पदानि च हा विरिश्चे-
त्यादौ रुरोद किल तेन स रुद्रनामा ॥ ४ ॥
 
तावदिति । यदैवं पुत्रैः स्वानुशासनं प्रत्याख्यातं, तदेत्यर्थः। उदितम् उ-
त्पन्नं प्रकोपं प्रकृष्टं कोपं प्रतिरुन्धतो घिया नियच्छतोऽप्यस्य ब्रह्मणः भ्रूमध्यतो
भ्रुवोर्मध्याद् मृडोऽजनि तं कोपमेव शरीरत्वेन परिगृह्य श्रीशङ्करस्तत्रावतीर्ण
इत्यर्थः । स च भवदेकदेश: विष्णोरेवांश:, "परः पुरुष एक इहास्य धत्ते
स्थित्यादये हरिबिरिञ्चहरेति संज्ञा: ।" ( श्री. भा. स्क. १. अ. २. श्लो. २३)
इति वचनात् । स चादौ जातमात्र एव हा विरिञ्च ! मे नामानि पदानि स्थानानि
च कुर्विति रुरोद किल, तेन रोदनेन स रुद्रं इति नाम प्राप्तवान् ॥ ४ ॥
 
एकादशाहयतया च विभिन्नरूपं
 
रुद्रं विधाय दयिता वनिताच दवा ।
तावन्त्यदत्त च पदानि भवत्प्रणुन्नः
 
प्राह प्रजाविरचनाय च सादरं तम् ॥ ५ ॥
 
१. 'न्तः सन्तः श' कं. पाठः
 
६५
 
२. 'इना' क, पाठः,