This page has not been fully proofread.

नारायणीये
 
अथ सृष्टिभेदानाह् बैकुण्ठेति दशभिः----
वैकुण्ठ ! वर्धितवलोऽथ भवत्प्रसादा-
दम्भोजयोनिरसृजत् किल जीवदेहान् ।
स्थास्नूनि भूरुहमयानि तथा तिरक्षां
जातीमैनुष्यनिवहानपि देवभेदान् ॥ १ ॥
 
वैकुण्ठेति। हे वैकुण्ठ ! विष्णो ! भवत्प्रसादाद् वर्धितबलो विद्याकर्मभ्यां
प्राप्तैश्वर्यः सन्नम्भोजयोनिः अथ अनन्तरं जीवानां देहानसृजत् किल । तत्र देहाः
स्थावरजङ्गमभेदाद् द्विविधाः । तदाह – स्थास्नूनीति । भूरुहमयाणि वृक्षप्रायाणि

ओषधिलतावीरुद्रूपाणि स्थावराणीत्यर्थः । तिरश्चां गवादीनां जाती:, तत्र गवा-
दयो द्विशफाः, अश्वाय एकशफाः, श्रादयः पञ्चनखाः काककङ्कगृध्रादयश्च,
एतान् । देवान् मनुष्यांश्चासुजदित्यर्थः ॥ १ ॥
 
अथ स्रष्टुबुद्धिकृतं तामससर्गमाह-
मिथ्याग्रहास्मिमतिरागविकोपभीति-
रज्ञानवृत्तिमिति पञ्चविधां स सृष्टा ।
उद्दामतामसपदार्थविधानदून-
स्तेने त्वदीयचरणस्मरणं विशुद्धयै ॥ २ ॥
 
[स्कन्धः - ३
 
7
 
तावत् ससर्ज मनसा सनकं सनन्दं
भूयः सनातनमुनिं च सनत्कुमारम् ।
 
'णां तामसप' ख. पाठः,
 
मिथ्येति । आत्मनोऽन्यत्वेन प्रपञ्चस्यास्तित्वप्रतीतिर्मिथ्याग्रहः, शरीरादा-
वहंममाभिमानोऽस्मिमतिः, उपभोग्यबुद्ध्या धनादिष्विच्छा रागः, धनाद्यपहर्तरि
क्रोधो विकोपः, उपभोग्यपदार्थानां व्ययनाशायुत्प्रेक्षया जनितं भयं भीतिः इत्येवं
पञ्चविधां पञ्चप्रकाराम् अज्ञानवृत्तिम् आत्माज्ञानकार्य मिथ्याग्रहादिपञ्चाज्ञान कार्याणि
सृष्ट्वेत्यर्थः । अनन्तरम् उद्दाम्नां प्रभूतानां तामसपदार्थानां केवलतमोगुणकार्याणां
पदार्थानां विधानेन सृष्ट्या दूनः क्षीणमानसः सन् स विशुद्ध्यै अज्ञाननिवृत्तये त्वदीय-
चरणस्मरणं तेने कृतवान् ॥ २ ॥