This page has not been fully proofread.

जगत्सृष्टिप्रकारवर्णनम् ।
 
एवमनुगृह्य भगवति तिरोहिते वेधसः प्रवृत्तिमाह -
शतं कृततपास्ततः स खलु दिव्यसंवत्सरा-
नवाप्य च तपोवलं मतिबलं च पूर्वाधिकम् ।
उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना
भवद्भलविजृम्भितः पवनपाथसी पीतवान् ॥ ९ ॥
 
दशकम् - ९]
 
शतमिति । सः ब्रह्मा खलु शतं दिव्यसंवत्सरान् कृतं चोर्ण तपो येन स
कृततपाः ततः पूर्वाधिकं तपोचलं मतिबलं विज्ञानवलं चावाप्य स पुनः पयस्ये-
कार्णवे वायुना तात्कालिकेनात्युत्कटेन वातेन कम्पितं स्वाधिष्ठानं पङ्कजमुवीक्ष्य
भवद्वलेन भवानेव बलं भवद्वलं तेन, ' स वै बलं बलिनां चापरेषाम् ' ( श्री. भा.
स्क. ७. अ. ८. श्लो. ८.) इति प्रह्लादवचनात् । विजृम्भितो बर्धितः पवनपाथसी
वायुं जलं च पीतवान् न्यपिबत् किल ॥ ९ ॥
 
तवैव कृपया पुनः सरसिजेन तेनैव स
प्रकल्प्य भुवनत्रयीं भववृते प्रजानिर्मितौ ।
तथाविधकृपाभैरो गुरुमरुत्पुराधीश्वर !
 
त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥ १० ॥
 
६३
 
तवेति । स पुनस्तव कृपयैव तेनैव अतिविपुलेन सरसिजेन भुवनत्रयीं
भूर्भुवःस्वरिति त्रीन् लोकान् । प्रकल्प्येति । अत्रातलवितलसुतलतलातलमहातल-
रसातलपातालानां सप्तानां भूर्लोकेऽन्तर्भावाद् महर्जनस्तपः सत्यमित्येतेषां स्वर्लोके
चान्तर्भावात् त्रिलोकपक्षः कथ्यते । ततश्च तत् कमलं द्विसप्तधा विभज्य चतुर्द-
श लोकानकल्पयदित्यर्थः । अनन्तरं च प्रजानां शुभाशुभादृष्टतारतम्येन तत्तल्लोक-
योग्यानां जीवानां निर्मितौ शरीरविरचनायां प्रववृते प्रवृत्तवान् । हे गुरुमरुत्पुरा-
घीश्वर ! तथाविधः सर्वजनविषयः कृपाभरः करुणातिशयो यस्य स त्वं गुरुदयो-
क्षितैः गुर्व्या घनीभूतया दयया उक्षितैः आर्द्राकृतैः ईक्षितैः कटाक्षैः आशु द्रुततरं
मां पाहीति ॥ १० ॥
 
इति जगत्सृष्टिप्रकारवर्णनं नवमं दशकम् ।
 
१. 'प' घ. पाठः