This page has been fully proofread once and needs a second look.

जगत्सृष्टिप्रकारवर्णनम् ।
 
एवमनुगृह्य भगवति तिरोहिते वेधसः प्रवृत्तिमाह -
-
 
शतं कृततपास्ततः स खलु दिव्यसंवत्सरा-

नवाप्य च तपोलं मतिबलं च पूर्वाधिकम् ।

उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना

भवद्लविजृम्भितः पवनपाथसी पीतवान् ॥ ९ ॥
 
दशकम् - ९]
 

 
शतमिति । सः ब्रह्मा खलु शतं दिव्यसंवत्सरान् कृतं चोर्णं तपो येन स

कृततपाः ततः पूर्वाधिकं तपोलं मतिबलं विज्ञानलं चावाप्य स पुनः पयस्ये-

कार्णवे वायुना तात्कालिकेनात्युत्कटेन वातेन कम्पितं स्वाधिष्ठानं पङ्कजमुद्वीक्ष्य

भवद्लेन भवानेव बलं भवद्लं तेन, ' स वै बलं बलिनां चापरेषाम् ' ( श्री. भा.

स्क. ७. अ. ८. श्लो. ८.) इति प्रह्लादवचनात् । विजृम्भितो र्धितः पवनपाथसी

वायुं जलं च पीतवान् न्यपिबत् किल ॥ ९ ॥
 

 
तवैव कृपया पुनः सरसिजेन तेनैव स

प्रकल्प्य भुवनत्रयीं भववृते प्रजानिर्मितौ ।

तथाविधकृपाभैभ[^१]रो गुरुमरुत्पुराधीश्वर !
 

त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥ १० ॥
 
६३
 

 
तवेति । स पुनस्तव कृपयैव तेनैव अतिविपुलेन सरसिजेन भुवनत्रयीं

भूर्भुवःस्वरिति त्रीन् लोकान् । प्रकल्प्येति । अत्रातलवितलसुतलतलातलमहातल-

रसातलपातालानां सप्तानां भूर्लोकेऽन्तर्भावाद् महर्जनस्तपः सत्यमित्येतेषां स्वर्लोके

चान्तर्भावात् त्रिलोकपक्षः कथ्यते । ततश्च तत् कमलं द्विसप्तधा विभज्य चतुर्द-

श लोकानकल्पयदित्यर्थः । अनन्तरं च प्रजानां शुभाशुभादृष्टतारतम्येन तत्तल्लोक-

योग्यानां जीवानां निर्मितौ शरीरविरचनायां प्रववृते प्रवृत्तवान् । हे गुरुमरुत्पुरा-

घीश्वर ! तथाविधः सर्वजनविषयः कृपाभरः करुणातिशयो यस्य स त्वं गुरुदयो-

क्षितैः गुर्व्या घनीभूतया दयया उक्षितैः आर्द्रारीकृतैः ईक्षितैः कटाक्षैः आशु द्रुततरं

मां पाहीति ॥ १० ॥
 

 
इति जगत्सृष्टिप्रकारवर्णनं नवमं दशकम् ।
 

 
[^
]. 'प' घ. पाठः