This page has not been fully proofread.

१२
 
नारायणीये
 
[स्कन्ध: - ३
 
एवं भगवद्रूपदर्शनानन्तरं विधेः प्रवृत्तिं वर्णयन् भगवन्तं प्रार्थयते---
श्रुतिप्रकरदर्शितप्रचुरवैभव ! श्रीपते !
 
हरे ! जय जय प्रभो ! पदमुपैषि दिष्ट्या दृशोः ।
कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठा-
मिति द्रुहिणवर्णितस्वगुणवंहमा पाहि माम् ॥ ७ ॥
श्रुतीति । श्रुतिप्रकरैः उपनिषद्वाक्यनिकरैः दर्शितं लक्षणया प्रतिपादितं
प्रचुरवैभवम् अतिशयेन महत्त्वं यस्य । अथवा वैभवं जगत्सृष्ट्यादिसामर्थ्यं श्रुति-
भिर्जगत्कारणत्वेन प्रतिपादितमित्यर्थः । श्रीपते! जगदनुग्राहक ! हरे! जगत्सं-
हर्तः! त्वं जय उत्कर्षमाबिष्कुरु । हर्षावेशसम्भ्रमाद् द्विरुक्तिः। हे विभो! त्वं मम
दृशोः पदं गोचरम् उपैपि प्राप्तोऽसि दिष्ट्या अहो मम सुखं जातम् । ममाशु
भुवननिर्मितौ जगत्सृष्टौ कर्मठां समर्थी धियं कुरुष्व जगन्निर्माणेतिकर्तव्यताविषयं
ज्ञानमनुगृहाणेत्यर्थः । इति द्रुहिणेन ब्रह्मणा वर्णितः संस्तुतः स्वगुणानाम् ऐश्वर्या-
दीनां बंहिमा बाहुल्यं यस्य स त्वं त्वद्गुणानेव वर्णयन्तं पाहि द्रुहिणस्येवात्मानं
पुरः प्रदर्श्य कृतार्थीकुर्वित्यर्थः ॥ ७ ॥
 
अथ स्तुवतोऽस्य भगवदनुग्रहप्रकार माह-
लभस्व भुवनत्रयीरचनदक्षतामक्षतां
 
गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे ! ।
भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे-
त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥ ८ ॥
 
लभस्वेति । अयि विधे! त्वम् अक्षताम् अनपायिनीं भुवनत्रयीरचनदक्षतां
त्रैलोक्यनिर्माणसामर्थ्यं लभस्व प्राप्मुहि । मदनुग्रहं गृहाण, तव जगन्निर्माणविधौ
यद्यदनुगृह्णामि, तत्तत् परिगृह्णीष्वेत्यर्थः । भूयस्तपः कुरु । किञ्च तव मय्यखि-
लसाधनी यद्यदिच्छसि, तस्य तस्यानायासेन निष्पादयित्री अत्युत्कटा प्रकृष्टप्रे-
मलक्षणा भक्तिश्च भवत्विति गिरमुदीर्योक्ता वेधसं ब्रह्माणं मुदितचेतसं सन्तुष्टमा
नसम् आदधाः कृतवानसि ॥ ८ ॥
 
१. 'चि' मूलकोशपाठः,