This page has been fully proofread once and needs a second look.

१२
 
नारायणीये
 
[स्कन्ध: - ३
 
एवं भगवद्रूपदर्शनानन्तरं विधेः प्रवृत्तिं वर्णयन् भगवन्तं प्रार्थयते---

 
श्रुतिप्रकरदर्शितप्रचुरवैभव ! श्रीपते !
 

हरे ! जय जय प्रभो ! पदमुपैषि दिष्ट्या दृशोः ।

कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठा-

मिति द्रुहिणवर्णितस्वगुणवंबंहमा पाहि माम् ॥ ७ ॥

 
श्रुतीति । श्रुतिप्रकरैः उपनिषद्वाक्यनिकरैः दर्शितं लक्षणया प्रतिपादितं

प्रचुरवैभवम् अतिशयेन महत्त्वं यस्य । अथवा वैभवं जगत्सृष्ट्यादिसामर्थ्यं श्रुति-

भिर्जगत्कारणत्वेन प्रतिपादितमित्यर्थः । श्रीपते! जगदनुग्राहक ! हरे! जगत्सं-

हर्तः! त्वं जय उत्कर्षमाबिविष्कुरु । हर्षावेशसम्भ्रमाद् द्विरुक्तिः। हे विभो! त्वं मम

दृशोः पदं गोचरम् उपैपिषि प्राप्तोऽसि दिष्ट्या अहो मम सुखं जातम् । ममाशु

भुवननिर्मितौ जगत्सृष्टौ कर्मठां समर्थीथां धियं कुरुष्व जगन्निर्माणेतिकर्तव्यताविषयं

ज्ञानमनुगृहाणेत्यर्थः । इति द्रुहिणेन ब्रह्मणा वर्णितः संस्तुतः स्वगुणानाम् ऐश्वर्या-

दीनां बंहिमा बाहुल्यं यस्य स त्वं त्वद्गुणानेव वर्णयन्तं पाहि द्रुहिणस्येवात्मानं

पुरः प्रदर्श्य कृतार्थीकुर्वित्यर्थः ॥ ७ ॥
 

 
अथ स्तुवतोऽस्य भगवदनुग्रहप्रकार माह-
-
 
लभस्व भुवनत्रयीरचनदक्षतामक्षतां
 

गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे ! ।

भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे-

त्युदीर्य गि[^१]रमादधा मुदितचेतसं वेधसम् ॥ ८ ॥
 

 
लभस्वेति । अयि विधे! त्वम् अक्षताम् अनपायिनीं भुवनत्रयीरचनदक्षतां

त्रैलोक्यनिर्माणसामर्थ्यं लभस्व प्राप्मुनुहि । मदनुग्रहं गृहाण, तव जगन्निर्माणविधौ

यद्यदनुगृह्णामि, तत्तत् परिगृह्णीष्वेत्यर्थः । भूयस्तपः कुरु । किञ्च तव मय्यखि-

लसाधनी यद्यदिच्छसि, तस्य तस्यानायासेन निष्पादयित्री अत्युत्कटा प्रकृष्टप्रे-

मलक्षणा भक्तिश्च भवत्विति गिरमुदीर्योक्तात्वा वेधसं ब्रह्माणं मुदितचेतसं सन्तुष्टमा
-
नसम् आदधाः कृतवानसि ॥ ८ ॥
 

 
[^
]. 'चि' मूलकोशपाठः,