This page has been fully proofread once and needs a second look.

जगत्सृष्टिप्रकारवर्णनम् ।
 
एवमन्तर्दृष्ट्यान्वेषणे कृ[^१]ते तु भवन्तं दृष्ट्वानित्याह
--
 
शतेन परिवत्सरैर्दृढसमाधिवन्धोल्लस-
दशकम् - ९]
 

त्प्रवोबोधविशदीकृतः स खलु पद्मिनीसम्भवः ।

अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा
 

व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥ ५ ॥
 

 
शतेनेति । शतेन परिवत्सरैः दिव्यसंवत्सरैः शतेन स खलु पद्मिनीसम्भवो ब्रह्मा

दृढेन निश्चलेन समाधेश्चित्तैकाग्र्यस्य बन्धेन चित्ततद्विषययोरेकीभावलक्षणेन ग्रथनेन

उल्लसता शोभमानेन प्रबोधेन ध्यातृध्येयध्यानभेदभानाभावादेकात्मविषयेण ज्ञानेन

अविशदो विशदः कृत इति विशदीकृतः अज्ञानमालिन्यास्तमयेन विमलः सन्
तब

तव
हि रूपं तव विष्णोरेव साक्षात् स्वरूपम् अन्तर्दृशा भगवतानुगृहीतेन दिव्येन

चक्षुषा व्यचष्ट दृष्टवान् । कीदृशम्, अदृष्टचरम् इतः पूर्वं महता प्रयासेनापि

यन्न दृष्टं तद् । अद्भुतम् अत्याश्चर्यं रूपं भुजगभोगभागाश्रयं भुजगस्य अनन्ताख्य-

भुजगस्य भोगः शरीरं तस्य भागः तत्कल्पिततल्पदेशः स आश्रयो यस्य तत्

तथा । तत् तव रूपं दृष्ट्वा परितुष्टधीः सन्तोषातिशयेन परवशोऽभवदित्यर्थः ॥ ५॥

 
तदेव रूपं वर्णयति
 
-
 
-
 
किरीटमकुटोल्लसत् कटकहारकेयूरयुग्
 

मणिस्फुरितमेखलं सुपरिवीतपीताम्बरम् ।

कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं
 

वपुस्तदयि ! भावये कमलजन्मने दर्शितम् ॥ ६ ॥
 

 
किरीटेति । मूर्ध्नि पुरः पृष्ठतश्चालङ्कृताभ्यां किरीटमकुटाभ्याम् उल्लसत्

शोभमानम् । कटकैः प्रकोष्ठस्थवलयैः, हारैः मुक्ताहारैः, अंसदेशालङ्कृतैः केयू-

रैश्च युज्यत इति कटकहारकेयूरयुक् । तत् । मणिभिः परार्ध्यनानारत्ननिकरैः स्फु-

रिता उज्ज्वला मेखला यस्मिंस्तद् मणिस्फुरितमेखलम् । सुपरिवीतम् अतिमोहन-

वेषविशिष्टतया परिवीतं परिहितं पीताम्बरं यस्मिमिंस्तत् तथा । अयि ! भगवन् ! त्वया

कमलजन्मने यद् दर्शितं नयनगोचरीकृतं, तद् वपुः सम्प्रत्यहं भावये केवलं स्मरा-

मीत्यर्थः ॥ ६ ॥
 

 
[^
]. 'ते भ' ख. पाठ:.
 
ठः