2023-02-16 08:52:07 by ambuda-bot
This page has not been fully proofread.
नारायणीये
सयोगवलविद्यया समवरूढवान् प्रौढधी-
स्त्वदीयमतिमोहनं न तु कलेवरं दृष्टवान् ॥ ३ ॥
अमुष्येति । अमुप्य मदधिष्ठितस्य सरोरुहः सरोजस्याधस्तात् किमपि का-
रणम् अधिष्ठानं सम्भवेत् । सम्भावनायां लिङ् । इतिस्म कृतनिश्चयः स खलु
ब्रह्मा नालरन्ध्राध्वना कमलदण्डस्य रन्धं सुषिरमेव अध्वा मार्गः, तेन समवरूढ-
वान् अवरोहणं कृतवान् । कथमस्यैतदुपायबोध इत्यत आह- प्रौढधीरिति । प्रौ-
ढा ऊहापोहनिपुणा धीर्यस्य स तथा । ननु बुद्धिसामर्थ्ये सत्यपि सुसूक्ष्मरन्ध्रप्रवेशः
कथं सम्भवेदित्यत आह सयोगवलविद्ययेति । योगवलं तपोबलं विद्या आत्मज्ञा
नम् । योगबलसहितया विद्ययेति । तपसा विद्यया च प्राप्तैश्वर्यतयातिसूक्ष्मशरीरो
भूत्वा तत्सरोरुहनालरन्धं प्रविष्टवानित्यर्थः । तर्दपि त्वदीयमतिमोहनं लोकोत्तर-
सौन्दर्ययुक्तं कलेबरं मूर्ति बहिर्मुखैर्व्यापारैर्दुप्पापं न तु दृष्टवान् नैव ददर्श ॥ ३ ॥
ततः सकलनालिकाविवरमार्गगो मार्गयन्
प्रयस्य शतवत्सरं किमपि नैव सन्दृष्टवान् ।
निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः
समाधिवलमादधे भवदनुग्राग्रही ॥ ४ ॥
[स्कन्धः - ३
1
तत इति । ततः अनन्तरं सकलानि नालिकाविवराणि नालरन्ध्राण्येव मार्गाः,
तान् गच्छतीति सकलनालिकाविवरमार्गगः मार्गयन् अन्वेषणं कुर्वन् । अयमर्थ :-
कमलनालस्य बहुरन्ध्रत्वादेकेन रन्ध्रेणावरुह्यान्विष्यादृष्ट्वा पुनरन्येन पुनधान्येनैव-
मतन्द्रितोऽन्विष्टवानित्यर्थः । एवं शतवत्सरं दिव्यसंवत्सराणां शतं प्रयस्य
प्रयासं कृत्वा कमलस्याश्रयत्वेन किमपि वस्तु नैव सन्दृष्टवान् । निवृत्येति ईश्वर-
स्यानुग्रहं विना किमपि ज्ञातुं कर्तुं वाशक्यमिति निश्चित्य बहिर्मुखात् प्रयासा
न्निवृत्य विरम्य कमलोदरे सुखनिषण्ण इत्यष्टाङ्गोपलक्षणम् । एकाग्रधीरिति धार-
णोच्यते । समाधिबलं समाधेश्चितैकाग्र्यस्य बलम् अचाञ्चल्यम् आदधे कृतवान् ।
भदनुग्रह एकत्मिन्नेबागृहोऽस्यास्तीति भवदनुग्रहैकाग्रही ॥ ४ ॥
१. 'था' क. पाठः
२. 'रं ब' ख. पाठः.
man ka