This page has been fully proofread once and needs a second look.

नारायणीये
 
सयोगलविद्यया समवरूढवान् प्रौढधी-

स्त्वदीयमतिमोहनं न तु कलेवरं दृष्टवान् ॥ ३ ॥
 

 
अमुष्येति । अमुप्ष्य मदधिष्ठितस्य सरोरुहः सरोजस्याधस्तात् किमपि का-

रणम् अधिष्ठानं सम्भवेत् । सम्भावनायां लिङ् । इतिस्म कृतनिश्चयः स खलु

ब्रह्मा नालरन्ध्राध्वना कमलदण्डस्य रन्धं सुषिरमेव अध्वा मार्गः, तेन समवरूढ-

वान् अवरोहणं कृतवान् । कथमस्यैतदुपायबोध इत्यत आह- -प्रौढधीरिति । प्रौ-

ढा ऊहापोहनिपुणा धीर्यस्य स तथा । ननु बुद्धिसामर्थ्ये सत्यपि सुसूक्ष्मरन्ध्रप्रवेशः

कथं सम्भवेदित्यत आह --सयोगलविद्ययेति । योगलं तपोबलं विद्या आत्मज्ञा
-
नम् । योगबलसहितया विद्ययेति । तपसा विद्यया च प्राप्तैश्वर्यतयातिसूक्ष्मशरीरो

भूत्वा तत्सरोरुहनालरन्धं प्रविष्टवानित्यर्थः । तर्दद[^१]पि त्वदीयमतिमोहनं लोकोत्तर-

सौन्दर्ययुक्तं कलेरं[^२] मूर्तितिं बहिर्मुखैर्व्यापारैर्दुष्प्पारापं न तु दृष्टवान् नैव ददर्श ॥ ३ ॥
 

 
ततः सकलनालिकाविवरमार्गगो मार्गयन्
 

प्रयस्य शतवत्सरं किमपि नैव सन्दृष्टवान् ।

निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः

समाधिलमादधे भवदनुग्रारहैकाग्रही ॥ ४ ॥
 
[स्कन्धः - ३
 
1
 

 
तत इति । ततः अनन्तरं सकलानि नालिकाविवराणि नालरन्ध्राण्येव मार्गाः,

तान् गच्छतीति सकलनालिकाविवरमार्गगः मार्गयन् अन्वेषणं कुर्वन् । अयमर्थ :-
थः--
कमलनालस्य बहुरन्ध्रत्वादेकेन रन्ध्रेणावरुह्यान्विष्यादृष्ट्वा पुनरन्येन पुनधाश्चान्येनैव-

मतन्द्रितोऽन्विष्टवानित्यर्थः । एवं शतवत्सरं दिव्यसंवत्सराणां शतं प्रयस्य

प्रयासं कृत्वा कमलस्याश्रयत्वेन किमपि वस्तु नैव सन्दृष्टवान् । निवृत्येति ईश्वर-

स्यानुग्रहं विना किमपि ज्ञातुं कर्तुं वाशक्यमिति निश्चित्य बहिर्मुखात् प्रयासा
-
न्निवृत्य विरम्य कमलोदरे सुखनिषण्ण इत्यष्टाङ्गोपलक्षणम् । एकाग्रधीरिति धार-

णोच्यते । समाधिबलं समाधेश्चितैकाग्र्यस्य बलम् अचाञ्चल्यम् आदधे कृतवान् ।

भदनुग्रह एकत्स्मिन्नेबागृवा<flag>ग्र</flag>होऽस्यास्तीति भवदनुग्रहैकाग्रही ॥ ४ ॥
 

 
[^
]. 'था' क. पाठः
 

[^
]. 'रं ब' ख. पाठः.
 
man ka