2023-02-16 08:52:07 by ambuda-bot
This page has not been fully proofread.
नारायणीये
[स्कन्ध:- ३
तत इति । अयि ! भगवन् ! ततः तव बिलोकनानन्तरं त्वदीयाद् ना-
भिरन्ध्रात् किञ्चन दिव्यं प्रकाशबहुलत्वात् सत्त्वमयं पद्मम् उदञ्चितम् उद्भूतम् ।
निश्शेषाणां जीवतदुपभोग्यानां पढार्थानां माला समूहः, तस्य सङ्क्षेपः सूक्ष्मरूपेणा-
बस्थानं तद्रूपं निश्शेषप्रपञ्चबीजरूपमित्यर्थः । मुकुलायमानं मुकुलावस्थया स्थि-
तम् ॥ १० ॥
५८
तदेतदम्भोरुहकुड्मलं ते कलेवरात् तोयपथे मरूढम् ।
बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥ ११ ॥
तदेतदिति । तदेतदम्भोरुहस्य कुड्मलं मुकुलं ते तब श्रीनारायणस्य क-
लेबरात् शरीरात् तोयपथे परितो जलावृतत्वाज्जलप्रदेशे प्ररूढम् अङ्कुरितम् ।
क्रम।ज्जलमतिक्रम्य बहिर्निरीतम् । ततश्च परितः स्फुरद्भिः स्वधामभिः निजदीप्ति-
भिः ध्वान्तमलं तमोरूपं मलं, यद्वा अलम् अतिशयेन ध्वान्तं न्यकृन्तद् उन्मू-
लितवदित्यर्थः ॥ ११ ॥
संफुलपत्रे नितरां विचित्रे तस्मिन् वीर्यवृते सरोजे ।
स पद्मजन्मा विधिराविरासीत् स्वयंप्रबुद्धाखिलवेदराशिः ॥ १२ ॥
सम्फुल्लपत्र इति । सम्यक् फुल्लानि विकसितानि पत्राणि दलानि यस्मि-
स्तत् तथा नितराम् अतिशयेन विचित्रे असामान्ये भवत ईश्वरस्य वीर्येण यो-
गबलेन धृते प्रतिष्ठिते तस्मिन् सरोजे स त्वमेव विधिराविरासीद् ब्रह्मणो रूपं गृ-
हीत्वा प्राविशैदित्यर्थः । अत एव पद्मजन्मेति नामाप्यासीत् । किञ्च स्वयम् उप-
देशनिरपेक्षं प्रबुद्धाखिलवेदराशिः अर्थावबोधपर्यन्तमवगतनिगमसमूहः, स्वतः स-
र्वज्ञश्चाभूदित्यर्थः ॥ १२ ॥
अस्मिन् परात्मन् ! ननु पाकल्पे त्वमित्यमुत्थापितपद्मयोनिः ।
अनन्तभूमा मम रोगराशिं निरुन्धि वातालयवास ! विष्णो ! ॥ १३ ॥
अस्मिन्निति । परात्मन् ! हे परमात्मन् ! जगत्कारणभूत ! अस्मिन् ननु
पाद्मकल्पे इत्थमुक्तप्रकारेण उत्थापितः सृष्टः पद्मयोनिर्येन स तथा अनन्तभूमा
१. 'सी: ब्र' ख, पाठः, २. 'श इत्य' ख. पाठः,