This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्ध:- ३
 
तत इति । अयि ! भगवन् ! ततः तव बिविलोकनानन्तरं त्वदीयाद् ना-

भिरन्ध्रात् किञ्चन दिव्यं प्रकाशबहुलत्वात् सत्त्वमयं पद्मम् उदञ्चितम् उद्भूतम् ।

निश्शेषाणां जीवतदुपभोग्यानां पढादार्थानां माला समूहः, तस्य सङ्क्षेपः सूक्ष्मरूपेणा-

स्थानं तद्रूपं निश्शेषप्रपञ्चबीजरूपमित्यर्थः । मुकुलायमानं मुकुलावस्थया स्थि-

तम् ॥ १० ॥
 
५८
 

 
तदेतदम्भोरुहकुड्मलं ते कलेवरात् तोयपथे मरूढम् ।

बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥ ११ ॥
 

 
तदेतदिति । तदेतदम्भोरुहस्य कुड्मलं मुकुलं ते त श्रीनारायणस्य क-

लेरात् शरीरात् तोयपथे परितो जलावृतत्वाज्जलप्रदेशे प्ररूढम् अङ्कुरितम् ।

क्रम।ज्जलमतिक्रम्य बहिर्निरीतम् । ततश्च परितः स्फुरद्भिः स्वधामभिः निजदीप्ति-

भिः ध्वान्तमलं तमोरूपं मलं, यद्वा अलम् अतिशयेन ध्वान्तं न्यकृन्तद् उन्मू-

लितवदित्यर्थः ॥ ११ ॥
 

 
संफुलपत्रे नितरां विचित्रे तस्मिन् भवद्वीर्यवृधृते सरोजे ।
 

स पद्मजन्मा विधिराविरासीत् स्वयंप्रबुद्धाखिलवेदराशिः ॥ १२ ॥
 

 
सम्फुल्लपत्र इति । सम्यक् फुल्लानि विकसितानि पत्राणि दलानि यस्मिमिं-

स्तत् तथा नितराम् अतिशयेन विचित्रे असामान्ये भवत ईश्वरस्य वीर्येण यो-

गबलेन धृते प्रतिष्ठिते तस्मिन् सरोजे स त्वमेव विधिराविरा[^१]सीद् ब्रह्मणो रूपं गृ-

हीत्वा प्राविशैश[^२]दित्यर्थः । अत एव पद्मजन्मेति नामाप्यासीत् । किञ्च स्वयम् उप-

देशनिरपेक्षं प्रबुद्धाखिलवेदराशिः अर्थावबोधपर्यन्तमवगतनिगमसमूहः, स्वतः स-

र्वज्ञश्चाभूदित्यर्थः ॥ १२ ॥
 

 
अस्मिन् परात्मन् ! ननु पाद्मकल्पे त्वमित्मुत्थापितपद्मयोनिः ।

अनन्तभूमा मम रोगराशिं निरुन्धि वातालयवास ! विष्णो ! ॥ १३ ॥
 

 
अस्मिन्निति । परात्मन् ! हे परमात्मन् ! जगत्कारणभूत ! अस्मिन् ननु

पाद्मकल्पे इत्थमुक्तप्रकारेण उत्थापितः सृष्टः पद्मयोनिर्येन स तथा अनन्तभूमा
 

 
[^
]. 'सी: ब्र' ख, पाठः,
[^
]. 'श इत्य' ख. पाठः,