2023-02-16 08:52:06 by ambuda-bot
This page has not been fully proofread.
दशकम् - ८]
प्रलयवर्णनम् ।
कालाख्यशक्तिं मलयावसाने प्रबोधयेत्यादिशता ऋकिलादौ ।
त्वया प्रसुप्तं परिसुप्तशक्तिवजेन तत्राखिलजीवधाम्ना ॥ ७ ॥
कालेति । तत्रादौ प्रलयारम्भे परिसुतशक्तित्रजेन परिसुप्तो निलीन: श-
क्तीनां मूलप्रकृतिमहदहङ्कारादीनां ब्रजः समूहो यस्मिन्, तथाभूतेन अखिलजीव-
धाम्ना संसारदुःखखिन्नानां जीवानामतिचिरकालं विश्रमस्थानभूतेन कालाख्यश-
क्तिं प्रलयावसाने चतुर्युगसहस्रलक्षणाया रात्रेरवसाने सति त्वं मां प्रबोधयेत्यादि-
शता आज्ञापयता च त्वया तथा कालाख्यशक्तया सह प्रसुप्तं शक्तिशक्तिमतोर-
भेदमबलम्ब्य स्थितम् । यथा कश्चिद् बहुभार्यः पुरुषः इतरासु प्रसुप्तासु दयितया
सह कञ्चित् कालं वसन् सुप्रबोधां तां प्रभाते त्वं मां प्रबोधयेत्यादिश्य तथैव
सह गाढगाढमालिङ्गच सुसुखं निद्रां गच्छति, तद्वदिति भावः ॥ ७ ॥
चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुते पुनरद्वितीये ।
कालाख्यशक्तिः प्रथमबुद्धा प्रावोधयत् त्वां किल विश्वनाथ ! ॥ ८ ॥
चतुर्युगाणामिति । आद्वेतीये त्वयि एवं चतुर्युगाणां सहस्रं यावत्प्रलया-
वसानं प्रसुप्ते सति पुनः कालाख्यशक्तिः प्रथमप्रबुद्धा हे विश्वनाथ ! त्वां प्राबोध-
यच्च । किलशब्दोऽत्र केवलपुराणप्रसिद्धिं द्योतयति ॥ ८ ॥
विबुध्य च त्वं जलगर्भशायिन् ! विलोक्य लोकानखिलान् मलीनान् ।
तेष्वेव सूक्ष्मात्मतया निजान्तःस्थितेषु विश्वेषु ददाथ दृष्टिम् ॥ ९ ॥
विबुध्येति । हे जलगर्भशायिन् ! आवरणोदकमध्यशायिन् ! त्वं प्रबुध्य
अखिलान् लोकान् त्वाय प्रलीनान् विलोक्य । ननु प्रलीनानां कुतो विलोकनस-
म्भवस्तत्राह – तेप्विति । सूक्ष्मात्मतया कारणरूपेण निजान्तः स्थितेषु तेष्वेव
विश्वेषु लोकेषु दृष्टिं ददाथ च दत्तवान् ईक्षितवानित्यर्थः ॥ ९ ॥
-
नाभिपद्मद्वारा प्रपञ्चसृष्टिप्रकारमाह
ततस्त्वदीयादयि ! नाभिरन्ध्रादुदञ्चितं किञ्चन दिव्यपद्मम् ।
निलीननिश्शेषपदार्थमालास ङ्क्षेपरूपं मुकुलायमानम् ॥ १० ॥
* 'तयादौ ' इति ब्याख्यातॄपाठ: स्यात् ।