This page has been fully proofread once and needs a second look.

दशकम् - ८]
 
प्रलयवर्णनम् ।
 
कालाख्यशक्तिं प्रलयावसाने प्रबोधयेत्यादिशता [^*]किलादौ ।

त्वया प्रसुप्तं परिसुप्तशक्तिव्रजेन तत्राखिलजीवधाम्ना ॥ ७ ॥
 

 
कालेति । तत्रादौ प्रलयारम्भे परिसुतशक्तित्प्तशक्तिव्रजेन परिसुप्तो निलीन: श-

क्तीनां मूलप्रकृतिमहदहङ्कारादीनां ब्व्रजः समूहो यस्मिन्, तथाभूतेन अखिलजीव-

धाम्ना संसारदुःखखिन्नानां जीवानामतिचिरकालं विश्रमस्थानभूतेन कालाख्यश-

क्तिं प्रलयावसाने चतुर्युगसहस्रलक्षणाया रात्रेरवसाने सति त्वं मां प्रबोधयेत्यादि-

शता आज्ञापयता च त्वया तथाया कालाख्यशक्त्या सह प्रसुप्तं शक्तिशक्तिमतोर-

भेदमबलम्ब्य स्थितम् । यथा कश्चिद् बहुभार्यः पुरुषः इतरासु प्रसुप्तासु दयितया

सह कञ्चित् कालं वसन् सुप्रबोधां तां प्रभाते त्वं मां प्रबोधयेत्यादिश्य तथैव
यैव
सह गाढगाढमालिङ्गचग्य सुसुखं निद्रां गच्छति, तद्वदिति भावः ॥ ७ ॥
 

 
चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुते पुनरद्वितीये ।

कालाख्यशक्तिः प्रथमप्रबुद्धा प्रावोबोधयत् त्वां किल विश्वनाथ ! ॥ ८ ॥
 

 
चतुर्युगाणामिति । आद्वेवितीये त्वयि एवं चतुर्युगाणां सहस्रं यावत्प्रलया-

वसानं प्रसुप्ते सति पुनः कालाख्यशक्तिः प्रथमप्रबुद्धा हे विश्वनाथ ! त्वां प्राबोध-

यच्च । किलशब्दोऽत्र केवलपुराणप्रसिद्धिं द्योतयति ॥ ८ ॥
 

 
विबुध्य च त्वं जलगर्भशायिन् ! विलोक्य लोकानखिलान् मलीनान् ।

तेष्वेव सूक्ष्मात्मतया निजान्तःस्थितेषु विश्वेषु ददाथ दृष्टिम् ॥ ९ ॥
 

 
विबुध्येति । हे जलगर्भशायिन् ! आवरणोदकमध्यशायिन् ! त्वं प्रबुध्य

अखिलान् लोकान् त्वायवयि प्रलीनान् विलोक्य । ननु प्रलीनानां कुतो विलोकनस-

म्भवस्तत्राह--तेप्विति । सूक्ष्मात्मतया कारणरूपेण निजान्तः स्थितेषु तेष्वेव

विश्वेषु लोकेषु दृष्टिं ददाथ च दत्तवान् ईक्षितवानित्यर्थः ॥ ९ ॥
 
-
 

 
नाभिपद्मद्वारा प्रपञ्चसृष्टिप्रकारमाह
 
--
 
ततस्त्वदीयादयि ! नाभिरन्ध्रादुदञ्चितं किञ्चन दिव्यपद्मम् ।

निलीननिश्शेषपदार्थमालास ङ्क्षेपरूपं मुकुलायमानम् ॥ १० ॥
 

 
[^
*] 'तयादौ ' इति ब्व्याख्यातॄतृपाठ:ठः स्यात् ।
 
-