This page has not been fully proofread.

By
 
१३
 
नारायणीय
 
[स्कन्धः -- ३
 
तत्रान्त्यरात्रिजनितान् कथयामि भूमन् !
पश्चाद् दिनावतरणे च भवद्विलासान् ॥ ४ ॥
 
पञ्चाशदिति । असौ ब्रह्मा अधुना पञ्चाशद् अब्दाः संवत्सरा: प्रमाणं
यस्य तत् पञ्चाशददं स्वस्य वयसो द्विपरार्धलक्षणस्यार्धरूपं पूर्वार्धात्मकमेकं
परार्धमतिवृत्य अतिक्रम्य वर्तते । हिशब्दः प्रसिद्धौ । अयं वाराहः कल्पो
द्वितीयपरार्धस्यादिरिति प्रसिद्ध इत्यर्थः । तत्र तेषु कल्पेप्यादिमो ब्राह्मः
कथितः । पुनश्च अन्त्यरात्रिजनितानिति समनन्तरातीतः पाद्मः कल्पः, तम्मा-
दर्वाचीना रात्रिः प्रथमपरार्धम्यान्त्यरात्रिः, तस्यां जनितान् पश्चात् पुनश्च दिनाव-
तरणे (पाद्म? वाराह) कल्पारम्भे च हे भूमन् ! कालदेशापरिच्छिन्न ! ये भवद्विलासाः
भवतः सर्गप्रलयसम्बन्धिन्यो लीलाः, तान् बिलासान् कथयामि स्तोतमारभ इत्यर्थः ॥
 
दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये ।
जगन्ति च त्वज्जठरं समीयुस्तदेह मेकार्णवमास विश्वम् ॥ ५ ॥
दिनावसान इति । अथ सरोजयोनिर्ब्रह्मा दिनावसाने प्राक्कल्पावसाने
सुषुप्तिकामः त्वयि श्रीनारायणे सन्निलिल्ये निलीनः सन् निद्रां कृतवान् । जग-
न्ति लोकाश्च तदा त्वज्जठरं तवोदरदेशं समीयुः ब्रह्मणा सह प्राप्ताः । तदा प्र
लये इदं विश्वम् एकार्णवं जलमात्रशेषम् आस अभूत् ॥ ५ ॥
 
तत्रैव वेषे फणिराजि शेषे जलैकशेपे भुवने स्म शेषे ।
आनन्दसान्द्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ॥ ६ ॥
तवेति । एवं भुवने जलैकशेषे जलमात्रशेषे सति त्वं तब वेषे अवस्थाभे-
दरूप एवं शेषे अनन्ताये फणिराजि नागश्रेष्ठे शेषे स्म अशयिष्ठाः । आनन्द-
श्वासौ सान्द्रश्च स एवासावनुभवः सम्यग्ज्ञानं तद्रूपः । अत्र सान्द्रत्वमान-
न्दानुभवेतररूपराहित्यं सच्चिदानन्दस्वरूप इत्यर्थः । योगः स्वस्वरूपानुसन्धानं
स एव निद्रेव निद्रा योगनिद्रा स्वीयया योगनिद्रया परिमुद्रितः सम्यग् ला-
ञ्छितः आत्मा स्वरूपं यस्य स तथा ॥ ६ ॥
 
१ 'वे तद्रूप' ख पाठ: १२. 'निद्रा यो' ख. पाठः.
 
*
 
आस प्रचकाशे । 'अस गतिदहियादानेषु' । भ्वादिः । आसेलव्ययं वा तिप्रतिरूपम
 
स्त्यर्थकम् ।