2023-03-14 09:51:55 by Padmavati
This page has been fully proofread once and needs a second look.
प्रलयवर्णनम् ।
तावन्मिताश्च रजनी
निद्रात्यसौ त्वयि निलीय समं स्वसृष्टै
र्नैमित्तिक
स इति । सोऽयं ब्रह्मा चतुर्युगाणां सहस्रसङ्ख्यया मितानि परिच्छिन्नानि
अहानि दिनानि कल्पाख्यानि ता
हुशो निनाय बहुबारं नीतवान् । असौ स्वसृष्टैश्चराचरैः समं सह त्वयि श्रीना-
रायणे निलीय निद्रातीति, अहःक्षये हि ब्रह्मा स्वसृष्टं चराचरं सङ्गृह्णन्नेकार्णवेऽही-
न्द्रतल्पमधिशयानेन श्रीनारायणेन स
ब्रह्मणः स्वापनिमित्तत्वादस्य रात्रिं नैमित्तिकप्रलयमा
अस्मादृशां पुनरहर्मुखकृत्यतुल्यां
सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् ।
प्राग
प्राग् ब्राह्मकल्पजनुषां च परायुषां तु
सु
५५
ते
अस्मादृशामिति । स पुनर्ब्रह्मा अस्मादृशामहर्मुखे यानि कृत्यानि शौचाचम-
नप्राणायामसन्ध्यावन्दनजपहोमादीन्यनुदिनमनुष्ठेयानि कर्माणि, तत्तुल्यां सृष्टिं सो-
ऽपि भवत्प्रसादादनुदिनं करोति । अत्र च प्राक् पूर्
ते तथा, परम् अतिचिरकालम् आयुर्येषां तेषां मार्कण्डेयादीनामपि तदा नैमि-
त्तिकप्रलयावसाने सुप्तप्रबोधनसमा स्वापप्रबोधतुल्या । ननु तेषामपि ब्रह्मण इव
लुप्तप्रबोधौ[^१] स्त इत्येव वाच्यम् । किमिति कल्पादौ सृष्टिरस्तीत्युच्यते, मैवं,
तेषां ब्रह्मणि लीनत्वात् पुनश्च ब्रह्मणैव सृष्टत्वाच्च । ब्रह्मणः पुनः ब्रह्मसृष्
वात् स्वापप्रबोधावेव । ननु तर्ह्यस्मादृशामिव सृष्टिरेवास्तु, किमर्थमुच्यते सुप्तप्रबो-
धनसमेति, मैवं, प्राक्कल्पविषयानुस्मरणानपायात् सुप्तप्रबोधेन तुल्यत्वम् । अ-
स्मादृशां तु तदभावात् सृष्टिरेवेति भेद इति युक्तमुक्तम् ॥ ३ ॥
पञ्चाशदब्दमधुना स्ववयोर्धरूप-
मेकं परार्धमतिवृत्य हि वर्ततेऽसौ ।
[^१]. 'धौ न स्त' क. पाठः