This page has not been fully proofread.

अथ तृतीयस्कन्धपरिच्छेदः ।
 
उक्तरूपेश्वरोपास्तिविघ्नजालनिवृत्तये ।
विष्णुलीलानुसन्धेया तत्र सर्गो निरूप्यते ॥
 
एवं मुमुक्षूणामुपासनासिद्धये समर्था समाधिसामग्री दर्शिता । तत्र योगा-
न्तराया व्याधिस्त्यानसंशयप्रमादालस्यात्रिरतिभ्रान्तिमनोलब्धभूमिकत्वानवस्थितत्वानि
दुःखदौर्मनस्याङ्गकम्पश्वासप्रश्वासाः तत्सहभुवश्च । तत्र व्याधिर्ध्यानाकल्यता । अवि-
रतिर्विषयेच्छा । अलब्धभूमिकत्वं समाधिभूमेरलाभः । समाधेरुत्थानदशायामेतेषां
शमनार्थमिष्टाचाप्त्यर्थं च भगवदवतारलीलानुसन्धानं कर्तव्यम् । तदुक्तं –
 
"जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
 
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ! ॥" (भ.गी. अ. ४. श्लो. ९)
 
इति । तत्र लीला दशविधा.
 
"अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः ।
 
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥" (श्री. भा. स्क. २. अ. १०. लो. १)
इति वचनात् । तत्रापि प्रथमं भगवतः सृष्टिलीलां तदुपयोगिनस्तत्प्रासाङ्गकांश्च वराह-
कपिलचतुःसनश्रीरुद्रनारदमन्वादीनवतारान् दर्शयितुमारभते-
-
 
एवं तावत् प्राकृतप्रक्षयान्ते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा ।
ब्रह्मा भूयस्त्वत्त एवाप्य वेदान् सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥ १ ॥
 
१. 'ध्या' क. पाठः
 
एवमिति । प्राकृतप्रक्षयो महाप्रलयः, तस्यान्ते अवसाने सति आदिमे
ब्राह्मे कल्पे शब्दब्रह्माख्यस्येदानीन्तनस्य ब्रह्मण आदिदिनारम्भे त्वत्तो विष्णो-
लेब्धजन्मा जातः सन् ब्रह्मा भूयः पुनः त्वत्त एव वेदान् ऋगादीन् आप्य ल
ब्ध्वा पूर्वकल्पोपमानां सृष्टिं चक्रे, यथर्तुषु ऋतुलिङ्गानि एकरूपाणि तथा प्रति-
कल्पं सृष्टिसाम्यमिति महाभारतोक्तेरुत्तरोत्तरेषु कल्पेषु पूर्वपूर्वकल्पसमानां सृष्टिं
बहुशोऽसौ कृतवानित्यर्थः ॥ १ ॥