This page has been fully proofread once and needs a second look.

दशकम् -- ७]
 
भगवदनुग्रहवर्णनम् ।
 
५३
 
द्वैताद्वैतं यद् भवत्स्वरूपं परावरे ब्रह्मणी, तत्परं तद्विषयं तद् यथार्थं ज्ञानम् आपा-

दय मय्यनुग्रहेणोत्पादयेति यमाचष्ट, तं त्वां भजे ॥ ९ ॥
 

 
आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन्
 

बोधस्ते भविता न सर्गविधिभिर्वन्धोऽपि सञ्जायते ।

इत्याभाष्य गिरं प्रतोष्य नितरां तच्चित्तगूढः स्वयं
 

सृष्टौ तं समुदैरयः स भगवन्नुल्लासयोल्लाघताम् ॥ १० ॥
 

 
आताम्र इति । ( अथ स भगवान् ?) आताम्रे अरुणसरोजवदीषत्ताम्रवर्णे

चरणे विशेषेण भक्तिविश्वासबहुमानादिभिः सह नम्रं नमनशीलं तं ब्रह्माणं सखा

सखायमिव हस्तेन हस्ते स्पृशन् ते बोधो भविता यत् प्रार्थितं तद् ज्ञानं तवा
-
चिरादेव भविष्यति, किञ्च सर्गविधिभिः सृष्टिव्यापारैः बन्धः शरीरबन्धोऽपि न स-
ज्

ञ्
जायत इति गिरमाभाष्य सानुसरणमुक्तात्वा नितराम् अतिशयेन प्रतोप्ष्य सन्तुष्टं कृत्वा

स्वयं तच्चित्तगूढः तस्य ब्रह्मणः चित्त एवान्तर्हितः सन् तं ब्रह्माणं सृष्टौ समुदैरयः

ब्रह्मणो हृद्यन्तर्यामिरूपेण स्थित्वा सृष्टौ तं सम्यक् प्रेरितवान् यः, सत्वं भगवन् !

उल्लाघतां ममारोग्यम् उल्लासय सम्यक् संपादयेत्यर्थः ॥ १० ॥ ४५ ॥
 

 
त्रिगुणं द्विगुणं शुद्धसत्त्वैकगुणनिर्गुणम् ।

द्वितीये सफलं रूपमुपास्यमुपवर्णितम् ॥
 

 
इति हिरण्यगर्भोत्पत्ति-तपश्चरण-वैकुण्ठस्वरूप- भगवत्स्वरूपसाक्षात्कार-भगवदनुग्रहवर्णनं
 

 
सप्तमं दशकम् ।
 

 
इति नारायणीयस्तोत्रव्याख्यायां
 

 
भक्तप्रियाख्यायां
 

 
द्वितीयस्कन्धपरिच्छेदः ।
 

 
आदितः श्लोकसङ्ख्या ७५