This page has been fully proofread once and needs a second look.

दशकम् - ७]
 
भगवत्स्वरूपसाक्षात्कारवर्णनम् ।
 
५१
 
लक्ष्यते । तत्रत्यानां नयनगोचरीभवति । कीदृशी, नानादिव्यवधूजनैः बहुविध -

दिव्याङ्गनासहस्स्रैरैभिवृता परिवारिता । विद्युल्लतातुल्यया सु[^१]धालिप्तविद्युत्समया ।

विश्वोन्मादनहृद्या चासौ गात्रलता चेति कर्मधारयः, तया करणेन विद्योतिता-

शान्तरा प्रकाशितदिगन्तराला सती । किञ्च, विस्मयनीया इतरत्रादृष्टश्रुतपूर्वाः

दिव्याः सात्त्विका विभवा उपकरणानि[^२] यस्याः सा तादृशी च सती लक्ष्यत इति ।

अथ विस्मयनीयदिव्यविभवमिति चेत् पाठः, तदा ते तत् पदमिति सम्बन्धः ।

तन्मे देहि तद् वैकुण्ठपदं मामत्युत्सुकं प्रापयेय[^३], का ते हानिरिति शेषः ॥ ६॥
 
2
 

 
प्रसङ्गे सति पद्यत्रयेण वैकुण्ठपदं वर्णयित्वा स्वस्य तत्प्राप्त्युत्कण्ठामपि प्रका-

श्य प्रकृतेऽवतरंति --
 
रति--
 
तत्रैवं प्रतिदर्शिते निजपढेदे रत्नासनाध्यासितं
'

भास्वत्कोटिलसत्किरीटकटकाद्या कल्पढ़ीमादीप्राकृति ।

श्रीवत्साङ्कितमात्तकौस्तुभमणिच्छायारुणं
 
कारणं
 

विश्वेषां तव रूपमैक्षत विधिस्तत् ते विभो ! भातु मे ॥ ७ ॥
 

 
तत्रेति । तत्र तस्मिन् एवम् उक्तप्रकारेण प्रतिदर्शिते प्रसादेन प्रकाशिते,

त्वयेति शेषः । निजपदे आत्मलोके विधिर्ब्रह्मा त रूपमैक्षत दृष्टवान् । कीदृशं

तदित्यत आह - --रत्नासनाध्यासितं मणिसिंहासनोपविष्टं । भास्वदिति । कोटिस-

ङ्ख्यापरिमितादित्यबिम्बसन्निपातल्लसद्भिः शोभमानैः किरीटकटकादिभिराकल्पैर्भू-

षणैर्दीप्रा आकृतिर्यस्य तत्, श्रीवत्सेन भृगुपदन्यासाङ्केनाङ्कितम्, आत्तस्य स्वीकृतस्य

कौस्तुभमणेः कौस्तुभाख्यरत्नस्यच्छायया शोभया सर्वाङ्गीणया अरुणं पाटलं प्राप्त-

परभागमित्यर्थः, विश्वेषां चराचराणां कारणम् उपादानकारणभूतं यत्
, तद्
रूपं ब्रह्मा दृष्टवान् । हे विभो ! विश्वव्यापिन् ! तत् तादृशं ते तव रूपं मे भातु


ममापि प्रत्यक्षं भवतु[^४] । इदमत्राकृतं--स्वस्थानस्थिताय ब्रह्मणे यः प्रसीदन् आ
-
त्मीयमद्भुतं वैकुण्ठलोकं, तत्र रत्नगृहे मणिमयासनोपविष्टं प्रकृष्टदिव्याकल्पप्रभा-

पटलपाटलं स्वरूपं च [य::?] प्रदर्शितवानासनसि, तस्य ते मत्पुरतोऽप्येवं प्रादुर्भवि-

तुं प्रयासो नास्त्येव । अतोऽहं प्रार्थयेतरां तन्मे भात्विति ॥ ७ ॥
 
तद्
 
"
 
-
 

 
[^
]. 'तद्वदत्युज्ज्वलया' क. पाठ: ठः
[^
]. 'नि अलङ्कारादीनि य' क. पाठः,
[^
]. 'येत्यर्थः ॥
तत्रै' के,क. ग. पाठः,

[^
]. 'तु ॥ किञ्च, काला' क. ग. पाठः,