This page has not been fully proofread.

दशकम् - ७]
 
वैकुण्ठस्वरूपवर्णनम् ।
 
3
 
सामर्थ्य भविष्यतीति मां प्रतीदमीश्वरप्रेरणामति निश्चिन्वनेनेत्यर्थः। अनन्तरं च
स्वधिष्ण्यमेवाधिष्ठाय दिव्यं वर्षसहस्रमित्यत्यन्तसंयोगे द्वितीया । आत्तं स्वीकृतम्
अनुष्ठितमिति यावत्, तपो येन तादृशेन तेन ब्रह्मणा आराधितः सेवितस्त्वं
तस्मै ब्रह्मणे खनिलयं स्खधिष्ण्यभूतं वैकुण्ठं वैकुण्ठलोकं दार्शतवानासे । कीदृ-
शम् एकाद्भुतम् एकं मुख्यमद्भुतम् आश्चर्यम् । यस्मादद्भुतान्तरं नास्ति, तदेका-
द्भुतं तादृशमित्यर्थः ॥ ३ ॥
 
3
 
एकाद्भुतत्वं प्रतिपादयति मायेति त्रिभिः-
माया यत्र कदापि नो विकुरुते भाते जगद्भ्यो बहिः
शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः ।
सान्द्रानन्दझरी च यत्र परमज्योतिःप्रकाशात्मके
 
तत् ते धाम विभावितं विजयते वैकुण्ठरूपं त्रिभो ! ॥ ४ ॥
मायेति । यत्र यन्मिन् वैकुण्ठनिलये माया कदापि ब्रह्मण उत्पत्तौ प्रल-
येऽपि नो विकुरुते आत्मनः शरीरादेवेंश्वरात् पृथक्त्वेन प्रदर्शनरूपं कार्य न
करोतीत्यर्थः । तथाच सति कामक्रोधादिसम्भवाभावः किमु वक्तव्य इत्याह
शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गता इति । शोकः पीडा, क्रोधो-
sमर्षः, विमोहः शरीरादिप्वहंममाभिमानः साध्वसं मरणादिभयम् एतदाद्या
भावाः पदार्थास्तु दूरं गताः, यस्मादिति शेषः । यत्र च सान्द्रस्य घनीभूतस्या-
नन्दस्य झरी प्रवाहः, वर्तत इत्यर्थात् । यत्र स्थितानां सर्वदा ब्रह्मानन्दानुभव
एव भवतीत्यर्थः । ननु सत्यलोकेऽप्यस्ति लेशतः शोकः । तदेकदेशश्चेद् बैकुण्ठ-
लोकः, कथंकारं क्लेशलेशराहित्यमित्याशङ्कायामाह - जगच्यो बहिर्भात इति ।
-
चतुर्दशभ्यो लोकेभ्यो बहिर्भाते शोभित इत्यर्थः । अत एव परमज्योति प्रका-
शात्मके, नात्रादित्य चन्द्रादिज्योतिषां प्रकाश, किन्तु तेषामपि प्रकाशकं ज्योतिः
परमज्योतिः, आदित्यादिप्रकाशकत्वप्रदं ज्योतिर्ब्रह्म, तदेव प्रकाशो यत्र स पर
मज्योतिःप्रकाशः, तदात्मके तादृशस्वरूपे । हे विभो ! विश्वव्यापिन् ! विभावितं
 
-
 
·
 
१. 'स्यादित्यहं श्रीनारायणेन प्रेरितस्तस्य वाक्यमेतदिति निश्चितवतेत्यर्थ: ' क. ग. पाठ:.
२. 'रं स्व' ख. पाठ:. ३. 'मातेन चीर्णेन तपसा अष्टाङ्गयोगेन, आत्तं तपो येनेति वा
विग्रहः । तेन ब्रह्मणा त्वमीश्वर आराधितः सेवितः, ततस्त्वं तस्मै ब्रह्मणे वैकुण्णाख्यं स्वनिलयं
द' क. ग. पाठ:. ४. 'तं य' क. ग. पाठः, ५. 'तम् ॥' ख. पाठः