2023-03-13 10:31:46 by Padmavati
This page has been fully proofread once and needs a second look.
वैकुण्ठस्वरूपवर्णनम् ।
3
स्वधिष्ण्यमेवाधिष्ठाय दिव्यं वर्षसहस्रमि[^३]त्यत्यन्तसंयोगे द्वितीया । आत्तं स्वीकृतम्
अनुष्ठितमिति यावत्, तपो येन तादृशेन तेन ब्रह्मणा आराधितः सेवितस्त्वं
तस्मै ब्रह्मणे
शम् एकाद्भु[^४]तम्, एकं मुख्यमद्भुतम् आश्चर्यम् । यस्मादद्भुतान्तरं नास्ति, तदेका-
द्भुतं[^५] तादृशमित्यर्थः ॥ ३ ॥
3
एकाद्भुतत्वं प्रतिपादयति मायेति त्रिभिः-
माया यत्र कदापि नो विकुरुते भाते जगद्भ्यो बहिः
शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः ।
सान्द्रानन्दझरी च यत्र परमज्योतिःप्रकाशात्मके
तत् ते धाम विभावितं विजयते वैकुण्ठरूपं त्रिभो ! ॥ ४ ॥
मायेति । यत्र यन्मिन् वैकुण्ठनिलये माया कदापि ब्रह्मण उत्पत्तौ प्रल-
येऽपि नो विकुरुते आत्मनः शरीरादे
करोतीत्यर्थः । तथाच सति कामक्रोधादिसम्भवाभावः किमु वक्तव्य इत्याह
शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गता इति । शोकः पीडा, क्रोधो-
s
ऽमर्षः, विमोहः शरीरादि
भावाः पदार्थास्तु दूरं गताः, यस्मादिति शेषः । यत्र च सान्द्रस्य घनीभूतस्या-
नन्दस्य झरी प्रवाहः, वर्तत इत्यर्थात् । यत्र स्थितानां सर्वदा ब्रह्मानन्दानुभव
एव भवतीत्यर्थः । ननु सत्यलोकेऽप्यस्ति लेशतः शोकः । तदेकदेशश्चेद्
लोकः, कथंकारं क्लेशलेशराहित्यमित्याशङ्कायामाह
-
चतुर्दशभ्यो लोकेभ्यो बहिर्भाते शोभित इत्यर्थः । अत एव परमज्यो
शात्मके, नात्रादित्य
परमज्योतिः, आदित्यादिप्रकाशकत्वप्रदं ज्योतिर्ब्रह्म, तदेव प्रकाशो यत्र स पर
मज्योतिःप्रकाशः, तदात्मके तादृशस्वरूपे । हे विभो ! विश्वव्यापिन् ! विभावितं
-
·
[^१]. 'स्यादित्यहं श्रीनारायणेन प्रेरितस्तस्य वाक्यमेतदिति निश्चितवतेत्यर्थ: ' क. ग. पा
[^२]. 'रं स्व' ख. पा
[^३]. 'मातेन चीर्णेन तपसा अष्टाङ्गयोगेन, आत्तं तपो येनेति वा
[^४]. 'तं य' क. ग. पाठः
[^५]. 'तम् ॥' ख. पाठः