This page has not been fully proofread.

नारायणीये
 
कमण्डलाक्षसूत्रस्रुक्स्रुवपुस्तकधारिणी ।
 
प्रसन्ना ब्रह्मणो मूर्तिश्चिन्तनीया सुरैरपि" ॥ १ ॥
 
[स्कन्धः - २
 
सोऽयं विश्वविसर्गदत्तहृदयः संपश्यमानः स्वयं
 
बोधं खल्वनवाप्य विश्वविषयं चिन्ताकुलस्तस्थिवान् ।
तावत् त्वं जगतां पते ! तप तपेत्येवं हि वैहायसीं
वाणीमेनमशिश्रवः श्रुतिसुखां कुस्तपःप्रेरणाम् ॥ २ ॥
 
स इति । सोऽयं विश्वेषां चराचराणां विसर्गे गुणवैषम्याद् विविधे सर्गे
सृष्टौ दत्तहृदयः उत्साही सन् स्वयं संपश्यमानो जिज्ञासमानो विचारयन् विश्व-
विषयं बोधं किमाश्रयं किं वा कीदृग् वाहं सृजामीत्यजानन् चिन्ताकुलस्त-
स्थिवान् तस्थां । हे जगतां पते ! लोकोत्पत्तिस्थितिलयकुशल ! तावत् तस्मिन्नव
सरे त्वमेनं ब्रह्माणं तप तपेत्येवं वाणीं तपसि प्रेरणात्मकं विधिं कुर्वन् अशिश्रवः
श्रावितवानसि । कीदृशीं वैहायसीं बिहायस्यभिव्यक्ताम् अदर्शितशरीरामित्यर्थः ।
अथापि श्रुतिसुखां श्रोत्रानन्ददायिनीम् ॥ २ ॥
 
,
 
तद्वचनानन्तरं विधेः प्रवृत्तिमाह -
 
कोऽसौ मामवदत् पुमानिति जलापूर्ण जगन्मण्डले
दिदीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता ।
दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधित-
स्तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् ॥ ३ ॥
 
कोऽसाविति । जगन्मण्डले जलापूर्ण सति कोऽसौ पुमान् मामवदत् ।
जलमात्र शेषे जगति सति मां कश्चिदन्तर्हितोऽयमीदृशीं गिरमुक्तवान् किल । स
पुमान् कः । न च कोऽपि नास्तीति शक्यं वक्तुम् । असौ इति । व्यक्तस्य वच-
सः श्रवणात् कोऽपि वक्तास्तीत्यनुमयत एव । अतः स द्रष्टव्य इति दिक्षु
चतसृषूद्रीय तद्वतृदिदृक्षया स्वस्थानादुत्थाय परिक्रामन् मुखमुन्नमय्यावलोक्य
किमप्यनीक्षितवता न केवलं वक्तारं पुमांसं जलादन्यत् किञ्चिदपि वस्त्वदृष्टवता
तेन पुनस्तद्वाक्यार्थी विज्ञार्योत्पश्यता जानता त्वं तपश्चर, ततस्ते सृष्टि-
9
 
१. ' एवं तपसि भगवत्प्रेरणान' क. पाठः,