This page has been fully proofread once and needs a second look.

नारायणीये
 
कमण्डलाक्षसूत्रस्रुक्स्रुवपुस्तकधारिणी ।
 

प्रसन्ना ब्रह्मणो मूर्तिश्चिन्तनीया सुरैरपि" ॥ १ ॥
 
[स्कन्धः - २
 

 
सोऽयं विश्वविसर्गदत्तहृदयः संपश्यमानः स्वयं
 

बोधं खल्वनवाप्य विश्वविषयं चिन्ताकुलस्तस्थिवान् ।

तावत् त्वं जगतां पते ! तप तपेत्येवं हि वैहायसीं

वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम् ॥ २ ॥
 

 
स इति । सोऽयं विश्वेषां चराचराणां विसर्गे गुणवैषम्याद् विविधे सर्गे

सृष्टौ दत्तहृदयः उत्साही सन् स्वयं संपश्यमानो जिज्ञासमानो विचारयन् विश्व-

विषयं बोधं किमाश्रयं किं वा कीदृग् वाहं सृजामीत्यजानन् चिन्ताकुलस्त-

स्थिवान् तस्<flag>थां</flag> । हे जगतां पते ! लोकोत्पत्तिस्थितिलयकुशल ! तावत् तस्मिन्नव

सरे त्वमेनं ब्रह्माणं तप तपेत्येवं वाणीं तपसि प्रेरणात्मकं विधिं कुर्वन् अशिश्रवः

श्रावितवानसि । कीदृशीं वैहायसीं बिविहायस्यभिव्यक्ताम्, अदर्शितशरीरामित्यर्थः ।

अथापि श्रुतिसुखां श्रोत्रानन्ददायिनीम् ॥ २ ॥
 
,
 

 
त[^१]
द्वचनानन्तरं विधेः प्रवृत्तिमाह -
 
-
 
कोऽसौ मामवदत् पुमानिति जलापूर्ण जगन्मण्डले

दिदीक्षुद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता ।

दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधित-

स्तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् ॥ ३ ॥
 

 
कोऽसाविति । जगन्मण्डले जलापूर्ण सति कोऽसौ पुमान् मामवदत् ।

जलमात्र शेषे जगति सति मां कश्चिदन्तर्हितोऽयमीदृशीं गिरमुक्तवान् किल । स

पुमान् कः । न च कोऽपि नास्तीति शक्यं वक्तुम् । असौ इति । व्यक्तस्य वच-

सः श्रवणात् कोऽपि वक्तास्तीत्यनुमयत एव । अतः स द्रष्टव्य इति दिक्षु

चतसृषूद्रीवीय तद्वक्तृदिदृक्षया स्वस्थानादुत्थाय परिक्रामन् मुखमुन्नमय्यावलोक्य

किमप्यनीक्षितवता न केवलं वक्तारं पुमांसं, जलादन्यत् किञ्चिदपि वस्त्वदृष्टवता

तेन पुनस्तद्वाक्यार्थी विथं वि<flag>ज्ञा</flag>र्योत्पश्यता जानता त्वं तपश्चर, ततस्ते सृष्टि-
9
 

 
[^
]. ' एवं तपसि भगवत्प्रेरणान' क. पाठः,